पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४. रलप्रभायाम् वनधराख्यायिका ।
५०५
हत्कथामञ्जरी ।

राजपुत्रस्तत्र खड्गं दग्धं गौरीवरात्पुनः ।
क्षिप्रं निर्मलमाधाय भ्रातरं समजीवयत् ॥ ४४८ ।।
अथेन्दीवरसेनस्तं प्राप्तजीवोऽभ्यभावतः ।
तुषारशैलशिखरे मुक्तापुरनिवासिनः ॥ ४४९ ॥
सुतोऽसि मुक्तसेनस्य त्वं च विद्याधरप्रभो ।
पद्मसेनाभिधानोऽहं रूपसेनस्तथा भवान् ॥ ४५० ॥
पद्मा चन्द्रावती चेमे प्राग्भार्ये मे बभूवतुः ।
परस्परेर्ष्याकलहैरेताभ्यां तापितः पुरा ॥ ४५१ ।।
अवदं पितरं नित्यं वनं यामीति दुःखितः ।
स मद्वियोगनिर्विण्णो मां शशापाहितग्रहम् ॥ ४५२ ।।
येनाहं मर्त्यतां प्राप्तस्त्वं च मद्भक्तिसंश्रयात् ।
मर्त्यत्वं पृथिवीं जित्वा यदा पित्र प्रदास्यसि ।। ४५३ ।।
शापं तदा त्यक्ष्यसीति शान्तकोपोऽब्रवीत्स माम् ।
ततः परस्परं शापात्पत्न्यौ में मत्कृते रुषा ।
अवाप्ते रक्षसो भावमित्युक्त्वा विरराम सः ॥ ४५४ ॥
ततो विद्याधरपुरं प्रापतुस्ते सुलोचने ।
ते च जातिस्मराः सर्वे त्यागसेनपुरं ययुः ।। ४५५ ।।
प्रणम्य पितरं तत्र सभार्यः सानुजोऽथ सः ।
विजित्य पित्रे पृथिवीं ददौ खड्गबलोत्कटः ॥ ४५६ ॥
अथ वैद्याधरीं जातिं निवेद्य जनकाय सः ।
व्योम्ना मुक्तापुरं गत्वा भेजे लक्ष्मीं सहानुजः ।। १.६७ ॥
इत्येवं पृथुसत्वानां महतो क्लेशविप्लुषः ।
भवन्ति धैर्ययोगेन क्षिप्रमेव प्रयान्ति च ॥ १.५८ ॥
इतीन्दीवरसेनाख्यायिका ॥ १० ॥
गोमुखेनेति कथितं निशम्य नरवाहनः ।
धीः प्रतस्थे सोत्कण्ठवल्लभाध्यासितां दिशम् ।।.४५९ ।।