पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०४
काव्यमाला ।

विन्ध्याटव्यां परिश्रान्तौ तृष्णार्तौ पार्वतीस्मृतेः ।
बभूवतुः क्षणात्स्वस्थौ सिच्यमानाविवामृतैः ॥ ४३६ ॥
अवाप तत्र सहसा खड्गं दुर्गावरात्कृती।
येनेन्दीवरसेनोऽभूहुर्जयस्त्रिदशैरपि ॥ ४३६ ॥
अत्रान्तरे त्यागसेनो ज्ञात्वा पुत्रौ विवासितौ ।
काव्यालंकारया कूट लेकैर्मन्त्रिसमर्पितैः ॥ ४३७ ॥
कारागृहे तां विन्यस्य निरस्यामात्यमण्डलम् ।
शोचन्प्रदध्यौ तनयावश्विनाविव रूपिणौ ॥ ४३८ ।।
अथेन्दीवरसेनोऽपि खड्गी शैलपुराधिपम् ।
राक्षसं शैलदंष्ट्राख्यं हत्वा मायाविनं रणे ॥ ४३९ ।।
अवाप खड्गदंष्ट्राख्यां तनयां नवयौवनाम् ।
तथा मदनदंष्ट्राख्यां पुष्पेषोर्जेत्रमायुधम् ॥ ४४० ॥
तत्र लीलावतीकेलिसरसो विलसन्मुहुः ।
निनाय सुबहून्मासान्सेव्यमानोऽनुजेन सः ॥ ५४१ ॥
ततः खड्गप्रभावाप्तविद्यया धिष्ट्यगामिनम् ।
सोऽनुजं प्रेषयामास स्ववृत्ताख्यापने पितुः ॥ ४४२ ॥
(तस्मिन्गते खड्गदंष्ट्रा स्नात्वा तूर्णं समागता ।
प्रियं मदनदंष्ट्रायाः कण्ठलम्बितमैक्षत ॥ ४४३ ॥
ईर्ष्यावत्यथ तं खड्गं वह्नौ कोपाज्जुहाव सा ।
खड्गे निष्प्रभतां याते राजपुत्रोऽभवद्वसुः ॥ ४४४ ॥
अत्रान्तरे निजकथां जनकाय निवेद्य सः ।
अनुजस्तं समभ्येत्यः ददर्श शवमग्रजम् ॥ ४४५ ॥
शताभ्यां भ्रातृपत्नीभ्यां सह मर्तुं समुद्यतः ।
शुश्रावाकाशवचनं सुधाभ्रनिनदोपमम् ॥ ४४६ ॥
खड्गे गौरीवरादस्मिन्पुनर्निर्मलतां गते ।
जीवत्येष निजां जातिं स्मृत्वा शापक्षयादिति ॥ ४४७ ॥


सलमाख्या ल. ३. एतत्कोष्टान्तर्गतमा ख-पुस्तके त्रुदितः