पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४. रत्ननभायाम्-इन्दीवरसेनाख्यायिका ।।
५०३
बृहत्कथामञ्जरी

आर्यपुत्रस्य रक्षायै मयातिविषमेऽध्वनि ।
विद्या मायावती नाम प्रेषिता क्लेशमञ्जरी ॥ ४२३ ।
इति स्नुषावचः श्रुत्वा हृष्टो वत्सनरेश्वरः) ।
अमृतेनेव संसिक्तः सहसा धृतिमाप्तवान् ॥ ४२३ ॥
नरवाहनदत्तोऽपि तुरङ्गेण सगोमुखः ।
व्रजन्ब्रह्मप्रभां विद्यां विवेद श्रेयसे स्थिताम् ।। ४९४ ॥
तत्प्रभावेण दिव्यानि फलानि प्राप्य निर्वृतः ।
सरश्च क्षुत्परिश्रान्तितृष्णाः स सहसात्यजत् ।। ५९९ ॥
ततो दिनैः कतिपयैरवाप्य गहनं महत् ।
दिवाकरकरक्लान्तं तमभाषत गोमुखः ॥ ४२६ ॥
अभूदिरावती नाम त्रिदिवस्पर्धिनी पुरी।
त्यागसेनाभिधो राजा तस्यां शक्रप्रभोऽभवत् ॥ ४२७ ॥
बभूवतुः प्रिये तस्य भार्ये रूपगुणाधिके ।
काव्यालंकारनाम्नी च देवी चाधिकसंगमा ॥ ४२८ ।।
स पुत्रार्थी फलयुगं तपसा पार्वतीवरात् ।
प्राप्य प्रत्ययमभ्यायात्प्रियामधिकसंगमाम् ॥ ४२९ ॥
सा प्राप्य विधिना हृष्टा फलमेकं वरार्पिता।
द्वितीयमपि चौर्येण भुक्त्वासूत सुतद्वयम् ।। ३३० ॥
तमिन्दीवरसेनाख्यमनिच्छासेनमप्यसौ ।
विलोक्य काव्यालंकारा बभूव भृशदुःखिता ॥ ४६१ ।।
ततः प्रवृत्तौ तौ जेतुं पृथिवीं पितुराज्ञया ।
सानात्यैविपुलानीकैर्जग्मतुः कुलशालिनौ ।। ४३२ ।।
विचिन्त्य काव्यालंकारा करलेखैर्दिदेश तान् ।
अमात्यान्नृपतेर्नाम्ना वध्यौ राजसुताविति ।। ४३३ ॥
विचारयन्मुलेस्वार्थं करुणार्द्रेषु मन्त्रिषु ।
शङ्कितौ तौ प्रययतुर्नृपपुत्रौ महाटवीम् ॥ ४३४ ।।