पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०२
काव्यमाला ।

मृगयारसिको गन्तुं देवो वत्सनरेश्वरः ।
प्रस्तुतस्त्वं च सोत्कण्ठो वनिनं द्रष्टुमिच्छसि ॥ ४०९ ।।
इत्याकर्ण्य प्रियतमामासय विरहाकुलाम् ।
वनं गजरथानीकैः सह पित्रा ययौ क्षणात् ॥ ११० ॥
(निघ्नन्कुञ्जरस्र्दशार्दूलवराहहरिणान्वने ।
विजहार तुरङ्गेण कान्तां रत्नप्रभा स्मरन् ।। ४.११ ॥
ततः स च जवोत्कृष्टतुरङ्गो) निश्चलासनः ।
ललास गुलिकाकेलितालटङ्कारसुन्दरः ।। ४१२ ।।
तस्य कङ्कणझाकारकरस्फाटिकनिर्मिता।
गुलिका मूर्छिता यस्याः पपात विशदत्विषः ॥ १३ ॥
साब्रवीद्द्रतसौभाग्यदर्पस्ते राजपुन्नक ।
कर्पूरमञ्जरी कान्तां प्राप्य किं न करिष्यसि ॥ ४१४ ॥
नरवाहो निशम्येति प्रसाद्य मुनियोषितम् ।
कर्पूरमञ्जरी क्वासाविति पप्रच्छ कौतुकात् ॥ ४१५ ॥
सावदज्जलधेः पारे कर्पूरद्वीपवासिनः ।
राज्ञः कर्पूरचन्द्रस्य सुता कर्पूरमञ्जरी ॥ ४१६ ॥
यस्याः कुवलयच्छायैर्लोचनांशुभिरङ्कितम् ।
शङ्के शशाङ्कलावण्यशेषेण विदधे विधिः ॥ ४१७ ॥
गच्छ तां प्राप्स्यसि क्षिप्रमित्युक्त्वा सा तिरोदधे ।
प्रतस्थे गोमुखसखो नरवाहोऽपि तां दिशम् ॥ ४१८ ॥
चिराप्रतिनिवृत्तोऽथ वनाद्वत्सनरेश्वरः ।
(अपश्यन्दयितं पुत्रमभूच्छोकानलाकुलः ॥ ४१९ ॥
रत्नप्रभा ततोऽभ्येत्य वत्सराजं व्यजिज्ञपत् ।
ज्ञातं मयार्यपुत्रस्य वृत्तं प्रज्ञप्तिविद्यया ॥ ४२० ॥
तापसीवचसा ज्ञात्वा कान्तां कर्पूरमञ्जरीम् ।
स यातो वारिधेर्द्वीपं तत्समागमलालसः ॥ ४२१ ।।


१६-२, एतत्कोष्ठान्तर्गलपाठः, ख-पुस्तके त्रुदिता.