पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४. रक्षप्रभायाम-इन्दीवरसेनाल्याविना ।।
५०१
बृहत्कथाम

चिरायुरेष नृपतिर्नागार्जुनकृतौषधैहः ।
द्विषष्टिवर्षतां प्राप्तो न कदाचिद्विनणङ्क्ष्यति ॥ ३९७ ।।
राज्यकामोऽसि चेत्पुत्र त्वं नागार्जुनमेव तम् ।
गत्व याचस्व मूर्धानं हते तसिन्नराधिपः ॥ ३९८ ॥
दिवं प्रयास्यति क्षिप्रं त्वं तु राजा भविष्यसि ।
अनिषेकव्रतो नित्यं स च नागार्जुनोऽर्थिषु ॥ ३९९ ॥
इति मातुर्वचः श्रुत्वा लुब्धो राजकुमारकः ।
तथेत्युक्त्वा प्रतिययौ नागार्जुननिवेशनम् ॥ ४०० ॥
अत्रान्तरे प्रिये पुत्रे बाल एव दिवं गते ।
नागार्जुनो जगत्सर्वं सामृतं कर्तुमुद्ययौ ॥ ४०१ ॥
ततो भीतः सहस्राक्षो विमृश्य सहसाश्विनौं ।
न्यवारयत सौहार्दाद्रसायनविधानतः ॥ ४०२ ॥
अत्रान्तरे राजसुतस्तं मूर्धानमयाचत ।
छिन्धीति वादिनस्तस्य ग्रीवां चिच्छेद सोऽसिना ।। ४०३ ।।
कण्ठे कुलिशसारस्य राजपुत्रेण पातिताः ।
प्रययुः खण्डशः खङ्गा बिसकन्दाङ्कुरा इव ॥ ४०४ ॥
स्वयं तेन वितीर्णे तु मस्तके राजसूनवे ।
चिरायुस्तच्छुचा राज्यं त्यक्त्वा मुनिरभूद्वने ।। ४०५ ॥
तं च राजसुतं क्रूरं प्रेक्ष्य राजनयानुगाः ।
हत्या नागार्जुनसुता द्वितीयं चक्रिरे नृपम् ।। ४०६ ॥
इत्येवं देवराजेन करुणाब्धिर्निवारितः ।
पुसाममरताधाने स गृहीतव्रतोऽमृतैः ॥ ४०७ ॥
इति नागार्जुनाख्यायिका ॥ ९ ॥
इति सत्त्ववचोवृत्तं कथितं मरुभूतिना ।
वसन्तकः समभ्येत्य नरवाहनमभ्यधात् ॥ ४०८॥


२. 'रपि तच्छुत्वा त्यत्वा' स्व.

ख.