पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५००
काव्यमाला ।

न्यवेदयद्यथादृष्टं गत्वा भूमिभुजे भिषक् ।
ततोऽनवीन्नृपो वैद्यं विविक्ते मित्रयोः पुरः ॥ ३८४ ॥
शरीरं शंभुनिलये त्यक्तं तस्मिन्मया पुरा ।
त्वं चैतौ च बभूवुर्मे सुहृदस्तीर्थसेवनात् ॥ ३८५ ॥
ताभ्यस्थीनि मदीयानि तीर्थे क्षिप्तान्यथो त्वया ।
अधुना कृतकृत्योऽहमित्युक्त्वा निवृतिं ययौ ।। ३८६ ॥
इत्येवं पूर्वसंबन्धाद्भवन्ति प्रीतयो नृणाम् ।
प्राक्सेवितोऽयं धन्यानां ध्रुवं भो नरवाहन ॥ ३८७ ।।
इत्यजराख्यायिका ॥ ८॥
तपन्तकस्येति वचः श्रुत्वा भक्तिपुरःसरम् ।
सर्वे साधूतमित्यूचुः प्रहर्षोत्फुल्ललोचनाः ।। ३८८ ॥
अथान्तःपुरपर्यन्ते श्रुत्वा विक्रोशतां स्वनम् ।
निर्गत्य पृष्ट्वा तत्रस्थान्प्रविश्य प्राह गोमुखः ।। ३८९ ।।
देव कञ्चुकिनः पुत्रो यातो धर्मगिरेर्दिवम् ।
तं निशम्याप्तमोहोऽसौ नीतो निजजनैर्गृहम् ।। ३९० ॥
इति श्रुत्वा सकरुणं विषण्णे नरवाहने ।
क्षणं रत्नप्रभायां च मरुभूतिरभाषत ॥ ३९१ ।।
अश्वत्थपत्रतरलानयूंषि किल देहिनाम् ।
किं तु नागार्जुनस्यासीत्तत्स्थैर्यकरणे श्रमः ॥ ३९२ ॥
चिरायुरिति भूपालश्चिरायुनगरेऽभवत् ।
रससिद्धोऽभवत्तस्य मन्त्री नागार्जुनाभिधः ॥ ३९३ ।।
राज्ञस्तेदौषधजुषो याते वर्षशताष्टके।
भार्यापुत्राश्च बहवः कालेन त्रिदिवं गताः ॥ ३९४ ।।
ततो जीवहरं नाम यौवराज्ये स भूपतिः ।
विदघे तनयं सोऽयि मात्रे हृष्टो न्यवेदयत् ॥ ३९५ ॥
सावन्द्रहवः पुत्रा यौवराज्ये महीभुजा ।
अमिविक्त्ताः पुरा नेनं दिवं याताः क्षतायुषः ॥ ३९६ ॥