तो निर्गत्य तरुणो जनानां विस्मयप्रदः ।
सान्तःपुरपुरामात्यं सुकुमारं चरं महत् ।। ३७१ ॥
भेजे राज्यमहोत्साहः स युवा पूजयन्द्विजान् ।
अजरोऽयमिति प्राप प्रसिद्धिं विबुधोपमः ॥ ३७२ ।।
ततो यदृच्छयावाप्तौ वयस्यौ निजसंपदाम् ।
विस्तीर्णविभवौं चक्रे पद्मदर्शविचिन्तकौ ।। ३७३ ॥
कदाचिदथ तं प्राह स. भिषविजने नृपम् ।।
तव राज्यं मया दत्त मामेवाद्य न मन्यसे ।। ३७४ ।।
इति वैद्यवचः श्रुत्वा भूपतिः प्राह सस्मितम् ।
स्वकर्ममुद्रितो लोकः कः कस्मै किं प्रयच्छति ।। ३७५ ॥
प्राग्जन्मविहितं नाम तत्तु नान्यदवाच्यते ।
प्राप्तमन्यैः सुदूरस्थं करस्थं हारितं परैः ॥ ३७६ ॥
अहं जातिस्मरो वैद्य मत्कथां ज्ञास्यसीति तम् ।
भूमिपालः संभाभाष्य ययौ स्नातुं मदीतटम् ॥ ३७७ ।।
राजपुत्रैर्वृतस्तत्र स ददर्श जलान्तरे ।
पञ्च काञ्चनपद्मानि दृष्ट्वा वैद्यमुवाच च ॥ ३७८ ।
भिषग्वर कुतो नाम हेमाब्जानामिहागमः
गच्छ केदारक क्षिप्रं जानीहि चतुरो ह्यसि ॥ ३७९ ॥
ततो राजाज्ञया गत्वा नदीतीरेण सत्वरः ।
दूरे तीर्थतटासक्तं सोऽपश्यच्छेवमालयम् ॥ ३८० ॥
तत्र स्नातः स्मारासतिं प्रणम्य शशिशेखरम् ।
विश्रान्तो वृक्षशाखाग्रे नरास्धीनि व्यलोकयत् ।। ३८१ ।।
अत्रान्तरे जलधरैर्मुक्ते धाराकदम्बके ।
शाखास्थितास्थिपतितं नद्यां लदपतज्जलम् ॥ ३८२ ॥
तत्क्षणे तीर्थमासाद्य प्रयातं हेमपद्मताम् ।
इति दृष्ट्वा तदाश्चर्यं तीर्थे विस्वास्थिसंचयम् ।। ३८३ ।।
।