त्वं च हेमप्रभकुले वैजयन्ती कुलोज्ज्वला ।
धन्या. धराशं[१]शी यस्याः प्रणयी नरवाहनः ॥ ३५४ ॥
विलासशीलो भूपालः श्रीकण्ठविषये पुरा ।
बभूव चारुचरितः स्वच्छप्रकृतिमानसः ॥ ३५९ ।।
तस्य पद्मप्रभा नाम पद्मिनीव रवः प्रिया।
बभूव कामवसतिर्लावण्यगुणशालिनी ॥ ३६० ।।
स कदाचिन्निजं दृष्ट्वा जराधवलमाननम् ।
सतुषारमिवाम्भोजमभूञ्चिन्ताग्नितापितः ।। ३६१ ॥
शृङ्गारसुभगाभोगं शोभते तावदद्भुतम् ।
यावद्भृङ्गाङ्गनाजालश्यामलः केशसंचयः ॥ ३६२ ॥
मृत्युसिंहमहादंष्ट्राकालकोपस्मितच्छटाः ।
जरा हि नाम रूपस्य कमलस्येव चन्द्रिका ।। ३६३ ॥
उष्ट्रस्येव विलासेन गीतेनेव खरस्य च ।
वृद्धस्य सरभोगेन हास्य कस्य न जायते ।। ३६४ ।।
इति ध्यात्वा महीपालो यौवनार्थी रसायनम् ।
वैद्यं तरुणचन्द्राख्यमपृच्छत्पुरतः स्थितम् ॥ ३६५ ॥
कालक्लृप्तां जरां मूर्खो ([२]बलात्सत्यक्तुमिच्छति ।
वैद्यः क्षणं विचिन्त्येति नराधिपमभाषत ।। ३६६ ॥
देव भूमिगृहे गुप्ते मासानष्टौ स्थिताय ते)।
भैषज्यैयौवनं युक्त्या विधास्यामि स्थिरो भव ॥ ३६७ ॥
इत्युक्ते भूगृहे भूपं प्रविष्टं यौवनेच्छया।
हत्वा बलेन तरुणं सोऽन्य नरमवेशयत् ।। ३६८ ।।
बहिः स्थानान्तरस्थस्य ([३]प्रतीहारेण कीर्तितान् ।
अमात्यान्नामभिस्तस्य शनकैर्विदिताव्यधात् ॥ ३६९ ॥
द्वारि संभाषणव्यग्रमन्तःपुरकदम्बकम् ।
लेनोपदिष्टमज्ञासींचछ्रुत्वान्व इव नामभिः ॥ ३७० ॥
१. " "ससा" ख । २-३ . एतत्क्रोष्ठानतर्य्अतपाठः ख-पुस्तके त्रुटित्ः ॥
सिया' ता २-३. एलेकोशान्तर्गत पाठः ख-पुस्तके त्रुटिता,