पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४. रत्नप्रभायाम् अजराख्यायिका ॥
४९७
बहत्कथामञ्जरी ॥



विप्रो विभूतिलोमाख्यो वाराणस्यामभूत्पुरा ।
दरिद्रश्च कुलीनामां नित्यं हि श्रीः परामुखी ।। ३४६ ।।

धनितो रूपसंपन्नान्स दृष्ट्वा पर्यतज्यत ।
किमहं विहितो धात्रा शुष्ककुब्ज इव द्रुमः ॥ ३४७ ॥

इति संचिन्त्य स ययौ रूपद्रविणकाङ्क्षया ।
मानी तपोवने तीव्रतपःक्षपितविग्रहः ॥ ३४८।।

अनेकसयमक्षामं तमेत्य त्रिदिवेश्वरः।
उवाच जम्बुकाकारः पूतिविस्त्रवणाकुलः(?) ॥ ३४९ ॥

([१]अहो नैवास्ति संतोवः कस्यचिद्भगवान्द्विजः ।
धनार्थी पुण्यमात्मानमिदं न बहु मन्यसे) ॥ ३५० ।।

अहो सुकृतिनं[२] राजा यस्त्वां मानुषयोनिजः ।
ब्रामणश्च तपस्वी च स्पृहणीयोऽसि सुव्रतः ।। ३५१ ॥

अहो धन्योऽसि यन्नाखुर्न मण्डूको न कुक्कुटः ।
न पुष्कलो न चाण्डालो न कुष्टी न जडोऽपि वा ॥ ३५२ ।।

इति तस्य वचः श्रुत्वा विचिन्य मनसा क्षणाम् ।
सत्यमेतदिति ज्ञात्वा त्यक्तकामो ययौ गृहान् ॥ ३५३ ।।

इति बुद्धिमतां देव देवनस्खलिता मतिः ।
युक्तिमात्रोपदेशेन सहसैव प्रसीदति ॥ ३५४ ।।

एवं नर्मकथाभिस्ते कोपयन्तः परस्परम्
सचिवा नरवाहस्य हसन्तश्च मुदं ययुः ॥ ३५५ ॥

ततो रत्नप्रभा प्राह [३]धन्यो बत मम प्रियः ।
सर्वे स्निग्धा""""""यस्यैते सुहृदश्चित्तदर्पणाः ॥ ३५६ ॥

इति रखनप्रभावाक्यं श्रुत्वा पाह तपन्तकः !
देवि धन्या वयं येषां भक्तिः श्रीनरचाहने ।। ३५७ ॥



१.एतत्कोष्ठान्तर्गतपाठः ख्-पुस्तके त्रुतितः । २. "ना राज्ञा यस्त्वंलमुपय्जितः" ख । एतत्कोष्ठान्तर्गतपाठः ख्-पुस्तके त्रुटितः ॥


१. एतत्को ठान्तर्गतपाठः ख-पुस्तके झुटितः.. २. ना राज्ञा यस्त्वं समुपयोजितः'

एतरकोष्टान्तर्गतपाल: ख-पुस्तके त्रुदितः,