पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुखे-चण्डमहासेनकथा ।।
४९
वृहत्कथामञ्जरी

कूटकुञ्जरमालोक्य बोधामधुगीतिभिः ।।
जिघृक्षुर्मुर्धा तस्थौ सेवाभिरिव दुर्जनम् ॥ ३९ ॥
क्व यकृत्रिमो हस्ती वीणया क्व च तद्ब्रहः ।
प्रायेण व्यसनासक्तिमोहाय महत्तामपि ॥ ४० ॥
तस्मिन्धोषवतीव्यग्रे योधाः कुञ्जरनिर्गताः
अभ्याययुः सुसंस्धाः सह सात जिवृक्षवः ॥ ४१ ।।
स तानशङ्कितो. दृष्ट्वा धैर्यनिष्कम्पमानसः ।
मण्डलोत्तालचरणो जघान सुभटान्रणे ॥ ४२ ॥
हतशेरैः सहाभ्येत्य महाकालवरोऽर्जितः ।
एको चीस्वरः पश्चाजग्राहे छाना नृपम् ॥ ४३ ॥
तच्छ्रुत्वा स्वयमत्याह पुनरुज्जयिनीपतिः ।
वत्सेश्वर समासाद्य स विवेश निजा पुरीम् ॥ ४४ ॥
पौरैरभ्यर्थितोऽभ्येत्य स क्रूरविजयी नृपः ।
लजया मार्दवं प्राप विरराम चं तद्वधात् ॥ ४५ ॥
ततः प्रणम्य वत्लेश सह पौरैयजिज्ञपत्
मान्योऽसि मम राजेन्द्र न हि मे किल्बिषं त्वयि ।। ४६ ॥
इत्युक्त्वा तनयामस्मै न्यवेदयदमन्दधीः ।
वीणांगेयकलाज्ञाने शिष्येयं भवतामिति ॥ ४५ ॥
तां ददर्श ततो राजा नीलनीरजलोचनाम् ।
शृङ्गारमारुताधूतस्मराब्धेलहरीमिव ॥ १८ ॥
भूलतावीचिरचना हारडिण्डीरपाण्डुराम् ।
छद्मग्रहां च मानामिनिर्वापणनीमिव ॥ १९ ॥
दधतीं त्रिवलीकान्तिवर्णालीलोमवल्लरीम् ।
हारहंससमुत्सृष्टां सेवालसतिकामिव ॥ १० ॥
शोणाधरी ससिन्दूरकुचकुम्भाभिरागिणीम्
सितांशुचामरोदारां कन्दर्पकरिणीमिवः ॥ ११ ॥


सागरोद्भूता विलासल ख. २. कलोले'.ख.