पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८८
काव्यमाला ।


ते दृष्ट्वा नोदतिष्ठत्सा पर्यङ्कार्धं न वात्यजत् ।
चाटुकारे कृतोद्वेगा नर्मोक्तिषु निरादरा ॥ २३४ ॥

चुम्बने कूणितमुखी सकोपा नीविमोक्षणे ।
आलिङ्गने परावृत्ता प्राह मिथ्याशिरोरुजम् ॥ २३१ ॥

स च[१] गाढानुरक्तस्तन्नाज्ञासीत्तद्विचेष्टितम् ।
स्त्रीमतिः स्वप्नमायेव नाप्रबुद्धैविचार्यते ॥ २३६ ।।

ततः प्रातः समुत्थाय स ययौ मर्कटान्तिकम् ।
सर्वज्ञः स च तं प्राह सा विनष्ठा वधूरिति ॥ २३७ ॥

असत्यशङ्किने तम्म मन्त्रयोगेन मर्कटः ।
विद्याधरेणावभिन्नतनुं तां समदर्शयत् ॥ २३८ ॥

स विद्याधरसंसक्तां प्रत्यक्षं वीक्ष्य वल्लभाम् ।
रागनिद्रां परित्यज्य वैराग्यालोकमाप्तवान् ॥ २३९ ।।

तूर्णं निश्चयदत्तोऽयं तपसे कृतनिश्चयः ।
कपिना सह निर्द्वन्द्वं ययौ सिद्धतपोवनम् ॥ २४० ॥

दयिताविप्रलब्धानामैश्वर्यसुखदुःखिनाम् ।
नीचावमानदग्धानां नान्यत्राणं वनं विना ॥ २४१ ।।

ततः पुष्पोच्चयाजाप्ता तद्वनं सिद्धयोगिनी ।
कपेः स्वरूपसंप्रात्यै मन्त्रसूत्रमदारयत् ।। २४२ ॥

सोमस्वामी निजं रूपं संप्राप्य मुनिवत्ततः ।
सह निश्चयदत्तेन क्षीणपापो दिवं ययौ ।। २४३ ।।

इति शीलं विना देव रक्ष्यन्ते केन योषितः ।
गोमुखेनेति कथितं श्रुत्वा सर्वे मुदं ययुः ।। २४४ ॥
इति निश्चयदत्ताख्यायिका ॥ ५ ॥

गोमुखाश्चर्यकथया प्रहृष्टं नरवाहनम् ।
रत्नप्रभासखं दृष्ट्वा मरुभूतिरभावत ।। २४५ ॥



"१. जप्राहतु" ख.


"जप्राहातुख.