पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४. रत्नप्रभायाम-निश्चयदत्ताख्यायिकां
 


तमाह मर्कटो दूराद्यत्नः कार्यस्त्वया सखे ।
अस्व मन्त्रसूत्रस्य दारणे प्रणयादिति ॥ २२१ ॥

तथेत्युक्त्वा स संप्राप क्षणांतुहिनभूघरम् ।
भासि भासि शशाङ्कानामाकल्पमिव संचयम् ॥ २२२ ॥

अनुरागपरां भेजे न च संगमनिर्वृतः ।
गान्धर्वेण विवाहेन स तां तन मृगेक्षणाम् ।। २२३ ॥

तया स्मररसस्मेरभवसंभोगसुन्दरम् ।
अवाप प्रेमसर्वस्वमतीतां कथयन्कथाम् ॥ २२४ ।।

प्रेयस्या दत्तविद्योऽथ सुहृदं मर्कटं ययौ ।
द्रष्टुं कदाचित्सोत्कण्ठः कण्ठसूत्रं व्यचिन्तयत् ।। २२५ ॥

तस्मिन्गते निर्जनस्थां तो तारुण्यतरङ्गिणीम् ।
कश्चिद्विद्याधरसुतो ददर्श स्तबकस्तनीम् ॥ २२६ ॥

करिणीदन्तकान्तेषु तस्मा गात्रेषु बिम्बितः ।
स सुधालहरीमग्नः शशाङ्कश्रियमाययौ ।। २२७ ।।

भज मामिति तेनोक्ता सा लिलेख ह्रिया नता।
हेलया चरणाग्रेण कटाक्षशबलां भुवम् ॥ २२८ ॥

मौनाद्दत्तावकाशां स तामालिङ्ग्य ससाध्वसम् ।
कण्ठे जग्राह सोत्कण्ठं नीवीविस्रंसनाकुलः ॥ १२९ ॥

मा मा परवधूरस्मि त्वर्धोक्तिगलिताक्षरम् ।
स चुचुम्ब मुखं तस्या लज्जामीलितलोचनम् ।। २३० ॥

[१]क्षामाननाब्जपर्यस्तहारफेनप्रकम्पिनीम् ।
स दूषयित्वा प्रययौ ता मातङ्ग इवाब्जिनीम् ।। २३१ ।।

तस्मिन्प्रयाते सा तस्थावतृप्ता तत्समागमे ।
स्वेदासस्तम्मिल्लच्छिन्नहाराङ्कितस्तनी ।। २३२ ।।

अत्रान्तरे समामध्य कपिं कान्तानिकेतनम् ।
तूर्णं निश्चयदत्तोऽपि प्रेमाकृष्टः समभ्ययात् ।। २३३ ।।



"१. श्यामान"


१. श्यामान स.