पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४. रत्नप्रभायाम् मदनमालाख्यायिका ।
४८९
बृहत्कथामञ्जरी।


अनेकतुरगोदारकुञ्जरानीकसंकुल:
विक्रमादित्यनामाभून्नृपः पाटलिपुत्रके ॥ २४६ ॥

प्रतिष्ठानाधिनाथेन नरसिंहेन भूभुजा ।
जितः प्रतिज्ञां विदधे स वीरतत्पराजये ॥ २४७ ॥

रुद्धप्रवेशं में द्वारि सूच्यमानं पुरःसरैः ।
द्रक्ष्यन्ति सेवकाः सर्वे नरसिंहं न संशयः ॥ २४८ ॥

प्रतिज्ञायेति स ययौ तत्पुरं वेषयोषितः ।
गूढं कार्पटिको भूत्वा राजपुत्रशतैर्वृतः ॥ २४९ ।।

गृहं मदनमालायाः प्राप्य रा[१]जामृतोपमः ।
रममाणस्तया तस्थौ [२]तत्काञ्चनकृतव्ययः ॥ २५० ॥

अयं कोऽपि महासत्त्वः पृथिवीपालनोचितः ।
ध्रुवमित्यनिशं ध्यात्वा सा तस्थौ तत्प्रियव्रता !! २९१ ॥

प्रददौ नित्यमर्थिभ्यः स सुवर्णशतायुतम् ।
विद्यासु गुरुणा नूनं नकारं न हि शिक्षितः ॥ २५२ ॥

ततो मदनमालायास्तां भक्तिं गणयन्मुहुः ।
प्राह बुद्धिवरं नाम मघ्निणं वसुधाधिपः ॥ २५३ ।।

अकृत्रिममहो प्रेम धनत्यागो निरर्गलः ।
निर्विकारमहो सत्त्वमस्यास्तरलचक्षुषः ।। १५४ ।।

शरीरविक्रयो यासां हेतुर्द्रविणसँचये ।
([३]मया तदर्थाः क्षपिताः पश्य प्रेम्णो विजृम्भितम् ।। २५५ ॥

प्रत्यहं दिव्यरत्नेन श्रमणेनास्मि सेवितः ।
प्रपञ्चबुद्धिमापूर्वं मघ्न साचिथ्यसिद्धये) ।। २५६ ।।

तथेति प्रतिपन्नोऽहं मुक्तः स्वप्मेऽसुरारिणा ।
यागे त्वामेव पशुतां श्रमणो नेतुमुद्यतः ।। २५७ ।।

हन्तुं पापो वक्ष्यति त्वां प्रणतिः क्रियतामिति ।
त्वं दर्शयेति वाच्योऽसौ स्वया तद्वधसिद्धये ॥ २९८ ॥



१. "यतः" स्व । २." जगृहोपमम् " ख । ३-४. एतत्कोष्टान्तर्गतपाठः ख-पुस्तके त्रुटितः ॥
 ६२


यतः ख. २. 'जगृहोपमम् ख.३-४, एतस्कोष्ठान्तर्गत पाउल-पुस्तके त्रुटितः.