पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४. रत्नप्रभायाम्-निश्चयदत्ताख्यायिकाः ।
४८५
बृहत्कथामञ्जरी ।


अनेनः कण्ठसूत्रेण न विपन्नोऽस्मि संकटें ।
अतीतानागतज्ञश्च [१]जातस्तिर्यग्गतावपि ॥ १९७ ॥

श्रुत्वेति जातसौहार्दे निजां तस्मै त्यवेदयत् ।
कथा निश्चयदत्तोऽथ तां श्रुत्वा प्राह मर्कटः ॥ १९८॥

सखे विद्याधरी मा गा दूरे हि तुहिनाचलः ।
त्वया सह कृतासक्तिर्न च वश्या शुचिस्मिता (?) ॥ १९९ ॥

लतानां च नदीनां च स्त्रीणां राज्ञां च जायते ।
सखे कालेधु कालेषु सत्यं नवनवो रसः ॥ २०० ॥

([२]नाभिनन्दति चेत्सा त्वां प्राप्तां मकरलोचना ।
तदीयान्विपुलः क्लेशः कस्मिन्नु परिगण्यते) ।। २०१]

हसन्त्यन्यैर्वदन्त्यन्यस्तिष्ठन्त्यन्यैश्च निर्जने ।
भुञ्जते रतिमन्यैश्च लक्ष्यन्ते न हि योषितः ।। २०२॥

निर्मोकवद्यारस्त्यक्ष्यन्ति वि[३]लवत्प्रलपन्ति याः ।
को हि ताभिर्भुजङ्गीभिः कण्ठग्रहणमिच्छति ।। २०३ ।।

विश्रम्भसुभगो भोगः स्त्रीभिः कस्य न वल्लभः ।
किं त्वसौ विरसः पश्चान्मायाचटुलचेष्टितैः ।। २०४॥

भवशर्मा द्विजः पूर्वं सुमदां नाम योषितम् ।
जघान [४]रोगकलुषो मूर्ध्नि यष्ट्या मृशाकुलः । २०५॥

तत्कोपान्मन्त्रसूत्रेण सा तं चक्रे महावृषम् ।
वि[५]श्रोम्य तं ददर्शान्या सानुगा क्वापि योगिनी ॥ २०६ ॥

वार्यमाणानु[६]यायिन्याः तस्य सा [७]कण्ठसूत्रकम् ।
[८]व्यदारयत्ततो देवादाययौ सुमदा पुरः ।। २०७ ॥

सा दृष्ट्या मुक्तसूत्रं तं क्रुद्धा तां प्राह योगिनी ।
मया बद्धस्त्वया भुक्तः प्रातस्ते भविता क्षयः ।।१०८॥



१. एतत्कोष्टान्तर्गतपाठः स्व-पुस्तके त्रुटितः । २. एतत्कॊष्ठान्तर्गतपाठः स्व-पुस्तकेऽधिकः ।
३. "विलपन्त्यविशान्ति याः " स्व । ४. नारदकलहे" ख.।५." भ्रम्यन्तं तं " स्व । ६. " न्ययोगिन्या"स्व ।
७; "मन्त्रसू " स्व । ८. "न्यवार" ख ॥


एतत्कोष्ठान्तर्गतपाठः ख-पुस्तके अटितः. २. एतत्कोष्ठान्तर्गतपाटः ख-पुस्तके

अधिक: ३. 'बिलपल्यविशान्ति याख. ४. 'नागकलहे ख. ५. श्राम्यन्त ते' ख. ६. 'ययोगिया' स्व. न्य वार'ख.