ततो निश्चयदत्तं सा प्राह यक्षी कृताञ्जलिः
नाहं शक्ता स्थिते भानौ गन्तुं लोकैकचक्षुषि ॥ १८९ ॥
दिनं हि शर्वरीभूतं यक्षवेतालरक्षसाम् ।
रात्री पुनः समेष्ये त्वामित्युक्त्वा सा ययौ क्षणात् ॥ १८६॥
स तस्यां संप्रपातापां चचारैको बनान्तरे ।
ततो ददर्श मग्नाङ्ग मर्कटं शुष्ककर्दमे ॥ १८७ ।।
महौधविप्लवानीते रक्तलोचनसूचित्तम् ।
मामुद्धरेति कन्दन्तं [१]समुद्धत्य स कौतुकी ।
कोऽसीत्यपृच्छत्पृष्टस्तु कपिर्वक्तुं प्रचक्रमे ।। १८८ ॥
वाराणस्याममूद्विप्रश्चन्द्रस्वामीति विश्रुतः ।
सोमस्वामीति विख्यातस्तस्याहं तनयः प्रभो ॥ १८९ ।।
श्रीगर्भनानो वणिजो बन्धुदत्ताभिधा सुता।
भार्या वराहदत्तस्य स्वैरिणी मामसेवत ॥ १९० ॥
गूढं तत्प्रेमविश्रम्भसंभोगसुभगस्थितः ।
सुमहानपि कालो मे सुखिनः क्षणवद्ययौ ।। १९१ ॥
ततः प्रति गृहान्नेतुं तां प्राप्त निजभर्तरि ।
सा दुःखिता मंद्वियोगात्प्रदध्यौ साश्रुलोचना ॥ १९२ ।।
वयस्या योगिनी दृष्ट्वा तस्या विरहवेदनाम् ।
मां चक्रे मन्त्रसूत्रेण मर्कटं गमनक्षमम् ॥ १९३ ॥
मनसूत्राङ्कितगलं सा समादाय मां कपिम् ।
हृष्टा भर्तुर्गृहं यातुं प्रतस्थे मन्मुखोन्मुखी ॥ १९४ ॥
पुरुषस्य ततः स्कन्धे स्थितं मां बनमर्कटाः।
जहुस्तस्यां सकरुणं क्रोशन्त्यां पथि दुर्मदाः ॥ १९५ ॥
नाना [२]वनसहस्रेषु भ्रान्त्वा प्राप्तो महीमिमाम् ।
भवता कृच्छ्रमग्नोऽहं धर्मेशेन समुद्धृतः ॥ १९६ ।।
१."तमुद्भृ" ख । २. एतत्कोष्टान्तर्गतपाठः स्व-पुस्तके त्रुठितः ॥
ख. २० एतत्कोष्टान्तर्गत पाठः स्व-पुस्तके त्रुटिता.