पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८२
काव्यमाला ।


पृष्टा निश्चयदत्तेन साब्रवीत्क मलानना ।
सौरभाकृष्टमधुपैः पुनरुक्तालकावली ॥ १६१ ॥

अहं चि[१]न्तापराख्यस्य हिमवद्वासिनः सुता ।
अनुरागपरा नाम कन्या विद्याधरी प्रभो ॥ १६२ ॥

इति निश्चयदत्तस्तां [२]ब्रुवाणां चारुहासिनीम् ।
विदग्धोपक्रमैस्तैस्तैः संगमाभिमुखी व्यधात् ॥ १६३ ॥

सावदन्नाथ गच्छामि त्वं चेन्मे गृहमेष्यसि ।
तज्जाया ते भविष्यामि सत्यवाचो हि खेचराः ॥ १६४ ॥

इत्युक्त्वा सा ययौ दि[३]क्षु किरन्ती कान्तिकौमुदीम् ।
तत्संगमाशया सोऽपि ययौ हैमवतीं दिशम् ॥ १६५॥

उत्तरापथमासाद्य संगतोऽन्यैर्वणिक्सुतैः ।
पदं [४]कुरुष्वचीनानां मण्डलैविमलैर्ययौ ॥ १६६ ॥

विक्रीतस्ताडितः सोऽथ विषम प्राप्य बन्धनम् ।
ययौ गौरीवरान्मुक्ताः सह तैः सचिवैस्त्रिभिः ।। १६७ ।।

एकस्ततः प्रस्थितोऽसौ काश्मीरं प्राप्य मोक्षदम् ।
तैरन्वितस्तां अतिभिश्चतुर्भिः पथि संगतः ॥ १६८।।

तैः खट्वाङ्गकपालाङ्कैः स गच्छन्नुत्तरां दिशम् ।
वनं विवेश विषमं घोरव्यालमृगाकुलम् ॥ १६९ ॥

तमूचु[५]र्भारिका यक्षी घोररूपेह दृश्यते ।
या शृङ्गोत्पादिनी नाम सर्वलोकस्य संहतिः ॥ १७० ॥

भारिकेभ्यो निशस्येति सह तैव्रतगवितैः ।
[६]डाकिनीभूतवेतालं विवेश निशि काननम् ॥ १७१ ॥

ततः शुष्करीषाग्नि[७] महादारुचयोच्छ्रितम् ।
विधाय जापिनस्तस्थुस्ते भरतकृतमण्डलाः ॥ १७२ ।।



१."विन्ध्यपुरा" खा । २." ब्राह्मणीं " ख । ३. " हृष्टा" ख । ४. "तुरुष्कची" ख ॥

५." चु xxxxxx" ख । ६."उत्तलभू" ख । ७ "ग्निभस्मकूटचयोपरि । विहायसि। ततस्युस्ते xxxकृतमण्दनाः" ख॥


1 दिन्ध्यपुरा ख, २. 'बामणी .. ३. हृष्टा ख. ४. 'तुरुषकची ख!

चि. कारिका न.... उत्तालभूख. ७. 'मिमस्मकूटचयोपरि । विहायमिं. तितस्तस्थुस्ते मसतिमण्डना ब.