पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४, रत्नप्रभावाम्-निश्चयदत्ताख्यायिका ।।
४८१
वृहत्कथाभञ्जरी।


इति रत्नप्रभावाक्यं श्रुत्वा वत्सेश्वरात्मजः ।
साधूक्तमिति संहृष्टो विश्लयादभ्यभाषत ।। १४८ ॥

अथाह गोमुखस्तत्र कथाप्रस्तावकोविदः ।
अस्मिन्नेवान्तरे देव श्रूयतामिति कौतुकम् ॥ १४९ ॥

अस्ति श्रीकण्ठदयिता सतीवोज्जयिनी पुरी ।
मालतीस्फीतशान्तांशुमालाकलितकौमुदी ॥ १५० ॥

अस्या बिभान्ति क्षीरोदधवलाः स्फटिकालयाः ।
महाकालाट्टहासानां निहिता इव राशयः ॥ १५१ ॥

कुशस्थली कृतयुगे नेतायां पद्मावत्यपि ।
अम्बिका द्वापरे ख्याता कलावुज्जयिनी च या ॥ १५२ ॥

इन्द्रवर्मा नृपस्तस्यामभूदिन्द्र इवापरः ।
असंख्यमखसंहर्षादथ वाभ्यधिकस्ततः ॥ १५३ ॥

वणिनिङ्मिश्चयदत्ताख्यो द्यूतकारो महाव्ययः ।
बभूव तत्पुरे सक्तो माल्यताम्बूलसौरभे ॥ १५४ ।।

महाश्मशानं गत्वासौ शिलास्तम्बे विलेपनम् ।
धूत्वा करतलागभ्यमेकः पृष्टं विलिम्पति ।
निल्यसंधर्षणास्तम्बः श्लक्ष्णतां स समाययौ ।। १५९ ॥

कदाचिचिच्चित्रकारेण विहिता तन्त्र पार्वती ।
रूपकारेण चोत्कीर्णा बभौ साक्षाद्विवागता ॥ ११६॥

चतुः समे तु लिम्पन्तं तत्र पृष्टं समाकृति ।
भत्त्या गौरीमगामाता कापि विद्याधराङ्गना ॥ १५७ ।।

कान्तिनिश्चयदत्तं तं ददशे स्मरशालिनी !
पार्वतीभक्तिसंतोषान्मूर्तं फलमिवागतम् ॥ १५८ ॥

अभिलाषवती साथ सुन्दरी तस्य विग्रहम् ।
करेण कङ्कणवत्ता पस्पर्शालक्षिताकृतिः ॥ १५९ ।।

स तत्स्पर्शानृतासिक्तः परेऽह्नि प्राप्य तत्करम् ।
जग्राह दर्शनाकाङ्क्षी ततः सा प्रकटाभवत् ॥ १६० ॥