वणिक्प[१]वनसेनोऽपि गत्वा फल[२]हकाश्रयः ।
अथ प्रवहणं प्राप बणिजः क्रोधवर्मणः ॥ १३६ ॥
तेनोत्क्षिप्तः करुणया तस्यै वेर्षयावतो वधूम् ।
दैवात्स भगिनीं यातो निहतस्तेन दुर्मतिः ।। १३७ ।।
रत्नाधिपोऽथ नृपतिनारायणपरायणः ।
राज्यं ब्राह्मणसात्कृत्वा गजेन तपसे ययौ ॥ १३८ ॥
ततो निपतितो व्योम्नः सहसा स महागजः ।
पृष्टो महीभुजा प्राह संप्राप्य निजमन्दिरम् ।। १३९ ।।
अहं श्वेतप्रभो नाम गन्धवों मलयालयः ।
त्वं च देवप्रभो नाम नरनाथ ममाग्रजः ॥ १४० ॥
ईवितस्तव पुरा दयितां रूपशालिनीम् ।
महेश्वराग्ने गायन्तीं मुनिः कश्चिद्यालोकयत् ॥ १४१ ॥
तद्विलोकनसंक्रुद्धः स मुनिस्त्वां ततोऽशपत् ।
मर्त्यों भूत्वा प्रियतमां दृष्टास्यन्यरतामिति ॥ १४२ ॥
शप्तं त्वामहमालोक्य गजेनापीडयन्मुनिम् ।
तच्छापादस्मि संप्राप्तो प्रातः कुञ्जरतामिमाम् ॥ १४३ ॥
विष्णुप्रसादपर्यन्तः शापस्तेनायभावयोः
दिष्टः स च परिक्षीणः संकल्पाकैटभद्विषः ॥ १४४ ॥
इत्युक्त्वा भूभुजा सार्धं प्राप्तो गन्धर्वतां द्विजः ।
संगतः सिद्धगन्धर्वैः प्रययौ मलयाचलम् ॥ १४६ ॥
शीलवत्यपि भूपालादाप्तैः कनकसंचयैः ।
देवतायतनं चक्रे ब्राह्मणेभ्यश्च संचयम् ॥ १४६ ॥
इति शीलवत्याख्यायिका ॥४॥
इत्येवं निजशीलेन राजन्ते योषितः प्रभो ।
ईर्ष्यावतो केवलं तु स्त्रीरक्षा मनसो गढ़ः ।। १४७।।
१."पुत्रा़xxxतोऽपि " । २. एतत्कोष्टान्तर्गतपाठः ख-पुस्तके त्रुटितः ॥
का पुत्रवियेतोऽपि ह. एतत्कोष्ठान्तर्गतमः स्व-पुस्तके त्रुटित,