पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुखे-चण्डमहासेनकथा ।।
४७
वृहत्कथामञ्जरी

वीणां वासवदत्तासौ हास्यत्यभ्येत्य मत्पुरीम् ।
शिष्यो गुरुगृहं याति न हि शिष्यगृहं गुरुः ॥ १६ ॥
इति प्रतीयसंदेशं प्राप्य दूते गते नृपः
यौगन्धरायणो मन्त्री चुकोपायन्तिभूभुजे ।। १६ ।।
स प्राह भृकुटीधूमव्यक्तकोपानलाकुलः ।
यौगन्धरायणो वीरः संरम्भाकम्पिकुण्डलः ॥ १७ ॥
पश्य राजपशोर्दय संमोहाधमातचेतसः ।
अस्मदाह्वानसंदेशे निष्क्रस्पस्य प्रगल्भता ।। १८ ॥
'बध्वाहं सानुबन्धं तं मिथ्याप्रणयवादिनम् ।
यास्यामि कोपजलधेः पारं सेना विधीयताम् ॥ १९ ॥
श्रुत्वेत्याह महामन्त्री राजन्सदृशमुच्यते ।
अवज्ञामन्धराः वाचो न सहन्ते मनस्विनः ॥ २० ॥
स्वाच्छन्द्यं सुखसक्तेन रतिषेशलतेजसा ।
देव त्वया स्वयं नीतः प्रतापो दिशं शीतताम् ॥ २१ ॥
भवन्तं मृगयासक्तं विज्ञायाङ्कुरितानयम् ।
मन्येऽहं प्रतिसामन्तैः किंचिदुच्चैः कृतं शिरः ॥ २२ ॥
प्रणयेनैव ललना विनयेनैव कीर्तयः
नरनाथ विनश्यन्ति कुनयेन नृपश्रियः ॥ २३ ॥
महेन्द्रवर्मणो नहा जयसेनसुतो नृप ।
चण्डीवरान्महासेनः स चण्डाहनृपोऽभवत् ।। २४ - ३
राजा चण्डमहासेनः स विजेतुं न शक्यते ।
यस्मै ददौ स्वयं देवी कृपाणं विन्ध्यवासिनी ॥ २५ ॥
नडागिरिगिरीन्द्राभो गजेन्द्रस्तस्य विद्यते ।
मन्ये यस्य मैदामोदै_मुख्यं यान्ति दिग्द्विपाः ॥ २६ ॥


'तेय ख. २. 'ज्ञातुमायोतु मे पुरीम् र. "धीरः रखें. ४,'तत्य ख.

'दण्डवीरा' न. ६. 'को' ख