पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
काव्यमाला ।

यौगन्धरायणन्यस्तराज्यचिन्तापरोऽनयत् ।
कालं वीणाविनोदेन स मृगव्याससेवत ॥ ३ ॥
अत्रान्तरे थारम्भं तं ज्ञात्लोजयनीपतिः ।
चक्रे चण्डमहासेनस्तजयायं ततं मनः ॥ ४ ॥
कन्या वासवदत्तयं तद्योग्यैव सुता मम ।
निसर्गशत्रुर्नार्थ्यो मे मानी स च न याचते ॥ ६ ॥
बहुदुर्गो महाकोशो रक्तामात्यो विशालधीः ।
उपायैनैव शल्योऽसौ मृगयाञ्छाना विना ॥ ६ ॥
इत्येयं नृपतिर्ध्यात्वा चिर वत्सेश्वरस्थले ।
तुष्टाव दुर्गामुद्यानं गत्वा पुष्पकरण्डकम् ॥ ७ ॥
इच्छासिद्धिवरं प्राप्य भगवत्यास्ततो नृपः ।
विविध्य धीमान्सुचिरं बुधदेवेन मन्त्रिणा ।। ४ ।।
बनाति कुञ्जरान्नित्यं वीणानीदहतान्बने ।
प्रायः स क्रूरनागेन विधायेति धियं पुरः ॥ ९ ॥
दिदेश दूतं कृतकप्रणयोपायनैः सह ।
वत्सेश्वराय संदेशमप्यधाच्च दृढाशयः ॥ १२ ॥
स्वप्रकाशश्रियास्फारमिन्दोरिव कलानिधेः ।
मानसोल्लासिनियते प्रभूता कीर्तिकौमुदी ॥ ११ ॥
पुत्री मे कुलसर्वस्वमिय गान्धर्ववेदिनः ।
वीणायां श्रुतितत्त्वज्ञशिष्यतां तव वाञ्छति ॥ १२ ॥
तदेयुज्जयनी देव प्रणयादुहितुर्मम
सन्तोऽर्थनासु महतां निसेधं न हि शिक्षिताः ॥ १३ ॥
इत्युक्त्वा प्रेषितो दूतः कौशाम्बी त्वरितो ययौ ।
तत्रोदयनमासाद्य यथादिष्टं न्यवेदयत् ॥ १४ ॥


साना समान न. २. वन' ख. ३. "मित्यदा क. ४, "प्रस्तुता ख. ५. 'यद-

न्युजयिनीयता देव अपयतम्मद ख.