पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुखे-चण्डमहासेनकथा ।।
४५
वृहत्कथामञ्जरी

मुनिना पूजितस्तत्र दयितां विरहार्दिताम् ।
लेभे हर्षविशोकाक्षरतनयं चातनुद्युत्तिः ॥ १४०
अयं त्वत्तो नरपते मृगावत्यां यशोनिधिः
जातः श्रीमान्छुभो जेता धनंजय इवापरः ॥ १.४१ ।।
उक्त्वेत्ति मुनिना दत्तं गृहीत्वोदयनं नृपः ।
प्रिया सहायः स्वपुरी प्रतस्थे मन्त्रिभिर्वृतः ।। १४२॥
ततः प्रविश्य कौशाम्बी तनयाय ददौ नृपः
पुत्रान्युगंधरादीनां पौरराज्यश्रिया सह ॥ १४३ ॥
यौगन्धरायणो मन्त्री रुमण्यावाहिनीपतिः ।
असन्तको नर्मसुहृद्राजसूनोरभूत्ततः ॥ १४४ ।।
ततो विहत्य सुचिरं दयिताकेलितत्परः ।
सहस्रानीकनृपतिः कीत्येव जरया सृतः ॥ १४५: ।।
पवनाकम्पिकदलीदललोलां भवस्थितिम्
धियैव कलयन्प्रायात्सहामात्यो महापथम् ॥ १४६ ।
रामा न कस्य रतये मदनाभिरामा
कस्यामृतं न धनयौवनकेलिबन्धाः ।
सर्वात्मना विषयसंगम एष क तु
भृङ्गोत्तरङ्गकरिकर्णविशाललोलः ॥ ११७ ॥
श्रीक्षेमेन्द्रविरचितायां बृहत्कथाचा कथामुखळबके सहस्त्रानीककथा-
नाम प्रथमो गुच्छः ।
द्वितीको गुच्छः
कुलोचितपदं याते पार्थवंश्ये महीपतौ ।
प्रियासहायस्तत्सूनुश्चक्रे शास्त्रोदितां क्रियाम् ॥ १ ॥
क्रमागतं समासाद्य राज्यं वत्सेश्वरस्य च ।
किरीटिरचित्ताश्चर्ये जनं चक्रे श्लथादरम् ॥ २ ॥


१. 'चापि तद्युतिम् ल. मुतो क्ष...'तत्वम् ख... गसुखं च कि

नुस.५. "विलासलोलम'