पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६८
काव्यमाला ।


नरवाहनदत्तोऽथ हत्वा तमपि दुर्मदम् ।
घोरं मानसवेगाख्यं खड्गाग्रच्छिन्नमस्तकम् ।। २२४ ॥

गौरीमुण्डं वधप्राप्त नावधीत्करुणामयः ।
जग्राह तद्बलं सर्वं संप्राप्य मधुरसितः ।। २२५ ॥

गौरीमुण्डपुरं प्राप्य राजधानीं प्रविश्य सः ।
निरुद्धामानिनायाशु प्रियां मदनमञ्चकाम् ।। २२६ ॥
इति मानसवेगाधिवधः ॥ १० ॥

विद्याधरवरोद्याने दयिताभिः पिबन्मधुः ।
विजहार ततः श्रीमान्क्ष्यस्यैनरवाहनः ।। २२७ ॥

गौरीमुण्डव तनयां कान्तां मन्दिरिकाभिधाम् ।
परिणीयामितगतिप्रमुखैः सेवितो बभौ ॥ २२८ ॥

अत्रान्तरे विदित्वासौ चारैः समरसंमुखम् ।
[१]जतुं मन्दरदे[२]वाख्यं चक्रे मनसि विक्रमम् ॥ २२९ ॥

स संनद्धबलाम्भोधिर्निर्गतो नरवाहनः ।
चक्रवर्ती परां प्राप्य स्वसारं तस्य सुन्दरीम् ।। २३० ॥

तस्याः सख्यश्चतस्रो या विद्याधरनृपात्मजाः ।
समं विवाहः कर्तव्यः संवित्तासामभूदिति ।। २३१ ॥

एकैव परिणीताभूत्त्वां(?)वि""""’ विमुखाः क्षणम् ।
तद्वैमुख्या(?)विजहास दयितां नरवाहनः ॥ २३२ ॥

कालकूटाधिनाथस्य तनयां कालिकाभिधाम् ।
महादंष्ट्रस्य तु सुतां विद्युत्फु[३]ल्लां मृगीदशम् ॥ २३३ ।।

मद्बरस्यात्मजामिन्दुबदनां वरमतङ्गिनीम् ।
चित्रकूटेश्वरस्यापि पुत्री पद्मप्रभामिति ॥ २३४ ॥

तद्वाक्यात्ताः सखीस्तस्याः परिणीयाभवत्सुखी ।
तद्विलासरसावासनवयौवनमण्डितः ॥ २३५ ।।



१."च" इति स्यात् । २."वेया" ख । ३. "त्पुञ्जॆं" स्व ॥


य' इति स्थान २ वेवा: