पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३. पञ्चे-मानसवेगाधिवधः ।)
४६७
बृहत्कथामञ्जरी ।


ततो नष्टहिरण्योऽहं निर्गतो वञ्चितस्तया ।
श्वजिह्वाभिरिव स्त्रीणां लीढः को नैति रिक्तताम् ।। २१२ ।।

आराध्य चण्डिकां देवीं तद्वरादहभागतः ।
त्वत्पादमूलमानीतः सिद्धया तत्र विद्यया ॥ २१३ ॥
इति मरुभूतिकथा ॥ ८॥

इत्युक्त्वा विरते तस्मिन्दृष्टो हरिशिस्वोऽब्रवीत् ।
उज्जयिन्यामहं देव पातितस्तेन मायिना ॥ २१४ ॥

दुःखाद्धोरे महाकालश्मशाने मर्तुमुद्यतः ।
पुंसां प्रियवियोगाग्नेदेहत्यागोऽतिशीतलः ।। २१६ ॥

वह्निप्रवेशकामं मां दृष्ट्वा भूताधिपोऽवदत् ।
[१]कालसङ्घो न मर्तव्यं त्वया जीवति ते प्रभुः ॥ २१६ ।।

महेश्वरवरात्सोऽस्ति सर्व विद्याधरेश्वरः ।।
वृतः समस्तविद्याभिः संप्राप्तश्चक्रवर्तिताम् ॥ २१७ ॥

इति श्रुत्वा प्रहृष्टोऽहमाहूतस्ततविद्यया ।
त्वत्पादमूलं संप्राप्तः सुकृतीय शुभां गतिम् ॥ २१८ ॥
इति हरिशिखकथा ॥ ९॥

इति स्थित्वा निजकथाविनोदैरवाहनः ।
सज्जीकृतबलाम्भोधिर्निर्ययौ विजयोत्सुकः ।। २१९ ॥

तस्योग्रदुन्दुभिध्वानपूरिताशामुखें दिवि ।
अभवत्पु[२]षकरोद्भ्रान्तपुष्करावर्तकभ्रमः ॥ २२० ॥

विस्तीर्णविद्यास्तेनैव वयस्या गोमुखादयः ।
तद्विमानं महापामारुह्यासन्रणोत्सुकाः ॥ २२१ ॥

ततः समाययौ वीरो गौरिमुण्डः क्रुधा ज्वलन् ।
शिरा मान्सवेगेन सेनास्वव्रतिना वरः ॥ २२२ ॥

तत्र युद्धमभूद्धोरं वित्रासितसुरासुरम् ।
चण्ड[३] सिंहमुखैर्वारैर्गौरीमुण्डानुयायिनाम् ॥ २९३ ॥



१."तालजङ्गो"स्व । २."त्प्रलयोद्भ्रा"स्व । ३. "न्द्र" स्व


१. तालजको ख. २. प्रलयोझा व.