गोमुखेनेति कथितं मरुभूतिम[१]भाषत ।
अस्म्यहं पातितस्तेन मूर्छितः शून्यकानने ॥ १९९ ॥
सरितः शीतलाख्यायास्ततस्तीरे महामुनिः ।
अपश्यं तेन चा[२]स्म्युक्तः शुभं ते न चिरादिति ॥ २० ॥
ततस्तत्तटिनीस्नाताः पीनोन्नतपयोधराः ।
कान्ता दृष्ट्वा मया पृष्टः प्रोवाच क्षुभितो मुनिः ॥ २०१॥
एकस्या वस्त्रममलं वीरोपान्तात्त्वमानय ।
ततो ज्ञास्यसि वृत्तान्तमिति श्रुत्वा हृतं मया ॥ २०२ ।।
यातास्वन्यासु चैवैका हेमकुम्भोपमस्तनी ।
विस्तीर्णश्रोणिपुलिना नदीव प्राह रूपिणी ॥ २०३ ॥
मम मुञ्चांशुकं क्षिप्रमहं विद्याधरी मया ।
शंभोवराञ्चक्रवर्ती दृष्टव्यो नरवाहनः ।। २०४॥
इति श्रुत्वा प्रहृष्टोऽहं तया सुरतसंगतम् ।
तमपश्यं मुनिवरं दुर्निवारो हि मन्मथः ॥ २०५ ॥
ततो विभुच्य सा गर्भं कदलीपल्लवाङ्गना।
मुनिं प्राह स्वयं जित्वा भुक्तेन सिद्धिमाप्स्यसि ॥ २०६॥
इति श्रुत्वा तथा कृत्वा भुङ्क्ष्वेदमिति सोऽवदत् ।
प्रत्याख्यातं मया सर्वं भुक्त्वा स त्रिदिवं ययौ ॥ १०७ ॥
तस्य सिद्धिं परां दृष्ट्वा पश्चात्तापमहं गतः
तत्करभ्रष्टसिद्धान्नकणयुग्ममभक्षयम् ॥ २०८ ॥
तेनाहं सततं तप्तकाञ्चनष्ठीवतां गतः ।
वराङ्गनागृहं यातः कस्य नोन्मादनं धनम् ॥ २०९ ।।
सुवर्णष्ठीविनं दृष्ट्वा तन्त्र मा वृद्धकुट्टिनी ।
ग्रस्तलोकार्थविभवा कालजिह्वेव भीषणा ॥ ११० ॥
विधाय वमनद्रव्यं मम वान्तं तत्तोऽन्यया ।
तदन्नरत्रयुगलं निगीर्यालिङ्गि[३]तो ययौ ॥ २१६ ॥
१."रस" श्व । २. "स्स्व्" स्व । ३."ता"ख
२रिसर ३. ताला.