उवाच गोमुखाः पूर्व देव तस्मिन्महारणे ।
क्षिप्तो मानसंवेगेन प्राप्तोऽहं किं वटटपीम् (?) ॥ १८७ ॥
तत्राहं शोकविधुरो यत्नान्मर्तुं समुद्यतः ।
आश्वासितो ब्राह्मणेन स्वामिनं द्रक्ष्यसीत्यथ ।। १८८ ॥
नागस्वामी स मामाह पुराहं पाटलापुरे ।
अबन्धूर्जडघीर्नापि लिपिमात्रबुधोऽभवम् ।। १८९ ॥
ततोऽहं लज्जितो भिक्षाव्रतो भरसकपालभृत् ।
अवापं योषितादत्तं रक्ताब्जं सत्कृपावकः ॥ १९० ।।
अपरा मन तीक्ष्य हस्ते प्राह सुराङ्गना।
कया स्तोष्य """" दत्त्वेदं शाकिन्या रक्तमन्बुजम् ॥ १९१ ॥
श्रुत्वेत्यहमपश्यं तं स्वकरे पौरुष करम् ।
ततोऽहं तद्गिरा गत्वा सुरभि शरणं गतः ।। १९२॥
रक्षितो रजनीमेकां तथाहं शाकिनीभयात् ।
तद्गिरा श्रुतिसोमाख्यमाचार्यं शरणं गतः ॥ १९३ ॥
तेनापि रजनीमेकां रक्षितोऽस्मि परेऽहनि ।
विसृष्टः परिसंख्यायां प्राप्तोऽहं स्वेचरीगणैः ॥ १९४॥
प्रमैबायं ममैवायमिति तासां हरारवे ।
उक्तोऽस्मि पतितो दैवादायुःशेषेऽथ चापरम् ॥ १९५ ॥
ततो निशि च यक्षिण्या संगतः शापमुक्तया ।
कृतो निजप्रभावाद्यस्तेनाहं वेद्म्यनागतम् ॥ १९६ ।।
प्रभुस्तवेश्वरवरान्प्राप्तवान्नरवाहनः ।
नक्षरादक्षति च स मामुवाचेति सोऽग्रजः ।। १९७ ॥
ततोऽहं तदनुज्ञातो विद्यया दिव्यरूपया।
त्वत्पादमूलमानीतो धन्योऽस्मि सफलः क्षणः ॥ १९८ ।।
इति गोमुखकथा ॥७॥
५९