पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६४
काव्यमाला ।


गन्धर्वाणां सहस्रौधैर्विद्यामिर्गुलिकाभृताम् ।
अभुत्प्रकटसस्फोटसंचट्टचि‘ञ्चटं नमः ॥ १७४ ॥

गौरीमुण्डस्मृता देवी गौरी हुंकारमोहितान् ।
चकार चण्डसिंहाद्यान्संप्राप्तविजयानपि ॥ १७५ ॥

संक्रुद्धोऽथ समभ्येत्य गौरीमुण्डो महाजवः ।
जग्राह बाहुसंग्रामसंभुखं नरवाहनम् ॥ १७६ ॥

मायायोधी(?) तमादाय संविधूय गिरेस्तटे ।
चिक्षेप दूरसंतायमूर्छाविस्मृतसंभवम् ॥ १७७ ॥

वेगान्मानसवेगोऽपि तद्वयस्यान्दिगन्तरे ।
तत्याज गोमुखमुखा """""""""""" ॥ १७८ ॥

विद्याया धनवित्पारे रक्षिता न ययुः स्वयम् ।
ततस्त्रयम्बकनिर्दिष्टो ररक्ष नरवाहनम् ॥ १७९ ॥

धीरोऽमृतप्रभो नाम वहिशैलान्नभश्चरः ।
नरवाहनदत्तोऽध तपस्तेपे हराचले ॥ १८० ॥

पूर्वमाराध्य हेरम्ब तद्वराञ्च महेश्वरम् ।
गौरीं च तत्प्रसादेन विद्या प्राप नृपात्मजः ॥ १८१ ॥

स्वयं विनिर्मितं यत्नद्विमानं पद्मयोनिना।
सहस्रपत्रं वचसा शंकरस्यारुरोह सः ॥ १८२ ।।

ततो वक्रपुरे गत्वा प्रापामितगतेः सुताम् ।
सुलोचनानामत """ स्तसारङ्गलोचनाम् ॥ १८३ ।।

रममा णस्तया तन्न लेभे विद्याधरेश्वरः ।
प्रतीहारं स्वयं प्राप्तं स नन्दिनमिवेश्वरम् ॥ १८४ ॥

चण्डसिंहप्रभृतिभिर्दयितामिश्च संगतः ।
यदस्थानजविद्याभिर्वयस्थानानिनाय सः ॥ १८५ ॥

कृतप्रणामांस्तान्दृष्ट्वा न्यपृच्छन्नरवाहनः ।
क्व युष्माभिरियान्काल क्षपितः प्रेक्षितै रतिः ॥ १८६ ॥