पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३. पञ्चे-गोमुखकथा
४६३
बृहत्कथामञ्जरी ।


जगत्रयकृतास्माभिरस्य शासनमुद्रिता ।
कृते मानसवेगाच्च गौरीमुण्डाञ्च दुर्भगात् ॥ १६१ ।।

वीरो विद्याविरतस्तविद्धं नरवाहनः ।
नार्हति त्रिपुरारातिवरदृप्ता हि शेखराः ॥ १६२ ॥

सहारमाभिरितो गत्वा सिद्धक्षेत्रं यत्तत्रतः ।
सिद्धविद्यः पुरा जित्वा पुनरेष्यति ते सुतः ।। १६३ ।।

इति तद्वचसा राज्ञा विसृष्टो नरवाहनः ।
सह तैस्तद्विमानेन सिद्धक्षेत्रं क्षणाद्ययौ ॥ १६४ ॥

मरुभूतिमुखैः सार्धे सिद्धक्षेत्रमवाप्य सः ।
तस्थौ मुनिरिवाक्षोभ्यो निस्तरङ्गोऽम्बुधिप्रमः ॥ १६५ ।।

ततश्चचाल वसुधा ववुर्वाताः शिलामुचः ।
पेतुरुल्काः सनिर्वानाश्चुक्षुभुर्मकराकराः ॥ १६६ ॥

अथ चाभूद्दिवा क्षोभा गुहाविवरदारुणः ।
स्फुटतामिव वेणूनां घोरश्चटचटारवः ॥ १६७ ॥

ततश्चकार कल्पान्तजलदध्यानदुःसहः ।
प्रचण्डी गौरीमुण्डस्य समरारावडिण्डिमः ॥ १६८ ॥

अदृश्यत सितच्छत्रशुश्रीकृतनभस्तलः ।
सह मानसवेगेन गौरीमुण्डो गजाग्रगः ॥ १६९ ॥

तस्य व्योम्नि विकोशासिश्यामांशुपटलीभवेत् ।
मालानीलो व्यलदलैर्विहते वरुणाश्रयः ।। १७० ॥

तत्र विद्याधरेन्द्राणां मालारत्नाशुबिम्बिते ।
रवौ सहस्रसूर्येच बभूव नभसस्तटी ॥ १७१ ॥

तेषां गम्भीरसंरम्भं संभाव्य गतविभ्रमा ।
प्रत्यर्य""" "महासेनाश्चण्डसेनादयः स्वयम् ॥ १७२ ॥

ततस्तरणिसंपातस्फुरद्रत्न किरीटकाः ।
धां विश्वे.... सामन्ताश्चक्रुर्ज्वालाजटोत्कटाम् ॥ १७३ ॥