ततः क्षणात्प्रभावत्या रक्षायै सानुरागया
[१]ऋष्यमूकगिरेः सानौ त्यस्तः सिद्धतपोवने ॥ १३६ ॥
तन्त्र बाहुलताजालश्यामले काननस्थले ।
विजहार तया स्वैरं लीलासुरतलालसः ॥ १३७ ॥
ततः पम्पाभिधं प्राप्य सरो रामेण यत्र ताः ।
निःश्वासग्लपिताब्जेन क्षपिता विरहक्षपाः ॥ १३८ ॥
साधुचित्तमिव स्वच्छं परार्थमिव शीतलम् ।
उन्मत्तमिव सावेगं शृङ्गारिणमिवोज्ज्वलम् ॥ १३९ ॥
चन्द्रस्येव निजावासं स्फटिकाद्रेरिवाशयम् ।
सुधाम्बुधेरिवापत्यं गगनस्येव दर्पणम् ॥ १४० ॥
अप्सर केशकुसुमैः किन्नरीकुचकुङ्कुमैः ।
नागतिलककर्पूरैः सूचितस्नानविभ्रमम् ॥ १४१ ॥
भिन्नाञ्जनकणश्यामैर्भ्रमरैर्बद्धमण्डलन् ।
चक्रवाककुलोत्सृष्ट रामशापाक्षरैरिव ॥ १४२ ॥
कृतावगाहमाकुम्भं विन्ध्यकुञ्जरयूथपैः ।
आश्रितं सागरधिया वज्रभीतैरिवाद्रिभिः ॥ १४३ ।।
तीरोपान्तलतालास्यगुरुभिः कमलानिलैः ।
अपि दिग्गजगण्डेभ्यः सुहृत्सेवकषट्पदम् ॥ १४४ ॥
रतिमानिव पुष्पेषुः स तद्वीक्ष्य प्रियासखः ।
जहर्ष गुणसझेन को हि नाम न तुष्यति ॥ १४५ ।।
ततः प्रभावती प्राह निर्वर्ण्य सरसः श्रियम् ।
ऋष्यमूकतटोपान्ते कान्तसंतोविताशया ॥ १४६ ॥
इह वानरराजेन हत्वा दुन्दुभिदानवम् ।
सुग्रीवो वालिनो भ्राता चिरं तस्थौ विवासितः ।। १४७ ॥
एते सप्त महाताला विद्धा रामेण पत्रिणा।
यैनीतं यद्यशः सप्तलोककर्णावतंसंताम् ॥१४८॥
१. "कृष्य" इति क ॥
१. कृष्य इति का
- ↑ १