भातुः पृथिव्याः श्रुत्वेति तथेत्युक्त्वा समाययौ ।
बद्ध्वा राजसुतं यत्नान्निनाय स्वसभातलम् ।। १२४ ॥
तत्र वायुपथाभिख्यः कुलवृद्धः सभापतिः ।
त्राये मानसवेगं तं तां च पप्रच्छ धर्मवित् ॥ १२६ ॥
भगिनी दूषितानेन समेत्याह स मानसः ।
विक्रीत इव मौनं स चक्रे वत्सेश्वरात्मजः ॥ १२६ ॥
वदैनं मूकतां प्राप्तं प्राह धीमान्सभापतिः ।
अहो विषादमौनं ते ह्यपराजयसिद्धये ॥ १२७ ॥
मौनं वादे क्षमां शक्तौ याच्ञां लुब्धे मदं [१]पुरेषः(?)
लजां च व्यवहारेषु न शंसन्ति विपश्चितः ।। १२८ ।।
श्रुत्वेति राजतनयः .... प्रोवाच... संभ्रमः ।
सतां सुखे च दुःखे च समानो धैर्यविक्रियः ॥ १२९ ।।
विभाति ये सदा न्यायैः सभा भाति च सज्जनैः ।
ते धर्मेण प्रकाशन्ते न सोऽस्तीह किमुच्यते ॥ १३० ॥
मया मानसवेगस्य विवादोऽयमुपस्थितः ।
आसनस्धो ममाग्रे व संयतो माययान्वहम् ॥ १३१ ॥
अर्थिनोः समता यत्र तत्र न्यायो विवेच्यते ।
प्राप्तौ विवादपदवीं समौ सामान्यभूमिपौ ।। १३२ ॥
उपपन्नमिति श्रुत्वा तथेत्याह सभापतिः ।
इति राजसुतस्योक्त्या जितो विद्याधरात्मजः॥
स तैर्निवार्यमाणोऽपि हन्तुमैच्छन्नृपात्मजम् ॥ १३३ ॥
ततः सभापतिः क्रुद्धो विद्याभिरवधूय तान् ।
निजसेनां समाहूय ररक्ष नरवाहनम् ॥ १३४ ॥
विद्याभृतां कुले देवो मामवाधः कपालभृत् ।
तद्रूपेण प्रभावत्या रक्षितः सोऽभवत्सुखी ॥ १३५ ॥
१. ?
र साव
- ↑ १