पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३. पञ्चे-प्रभावतीप्राप्तिकथा ।
४५९
बृहत्कथामञ्जरी

कदाचिदथ सा गत्वा रिक्तहस्तागता गृहम् ।
पुत्रेण याचिता प्राह सदा मे मोदकः कुतः ॥ १११ ॥

इदानीमत्र भुक्तोऽसि नासन्नो भोदकः कुतः ।
श्रुत्वेति बालस्तत्याज जीवितं त्रुटिताशयः ॥ ११२ ॥

सहसा प्रियविच्छेदं वज्रपातं सहेत कः।
त्वत्सारकुष्यति व्यक्तं मह्यं भदनमञ्चका ॥ ११३ ॥

इति प्रभावतीवाक्यं श्रुत्वा वत्सेश्वरात्मजः ।
अवापदाषाढ पुरे गूढां मदनमञ्चकाम् ॥ ११४ ॥

विशालविरहक्षामां पाण्डुगण्डां श्वथालकाम् ।
तां रूसवेणीमालोक्य जानकीमिव राधवः ॥ ११५ ॥

भेजे त्वरां च इर्षं च संभ्रमं च व्यथां तथा ।
दैन्यं क्रोधं च शोकं च लज्जां च नरवाहनः ॥ ११६ ॥

प्रभावत्याः प्रभावेण तद्रूपच्छन्नविग्रहः ।
विजहार ततः कान्तारतिसंभोगलालसः ॥ ११७॥

कण्ठावलम्बितं दृष्ट्वा चिराप्रियतमं सखी ।
सद्यः सिक्तेव पीयूषैरभून्मदनमञ्जुका ॥ ११८ ॥

ततो मासदये जाते विज्ञायान्तःपुराश्रयैः ।
क्रुद्धो मानसवेगस्तमाययौ युद्धदुर्मदः ॥ ११९ ॥

राजपुत्रोऽपि तं लब्धानालब्धुगुलिकाधरान्(?) ।
हत्वा तत्खङ्गमादाय तस्थौ समरसंमुखः ।। १२७ ॥

बाणासुरमिव क्रुद्धं ज्ञात्वा विद्याधरेश्वरम् ।
माता तं प्राह रक्ष्योऽयं प्राद्युम्निरिव धैर्यभूः ॥ १२१ ।।

बेंगवत्याः पतिरसौ खसुस्तव नृपात्मजः ।
जामाता तव धर्मेण रक्षणीयः प्रयत्नतः ॥ १२२ ॥

त्वत्सभायां विचारोऽद्य क्रियतां साधुसंसदि ।
वधो न शस्यते राजन्नपर्यालोचितागलः ॥ १२६ ।।