पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५८
काव्यमाला ।

चिन्तयित्वेति वत्सेशतनयस्तां निरीक्षितुम् ।
निर्ययौ सा च सहसा बभूवाकारसंयुता ॥ ९८ ॥

सा दुःखकारगं. पृष्टा राजपुत्रेण सुन्दरी ।
प्राह गान्धारनाम्नोऽहं विद्याधरपतेः सुता ॥ ९९ ॥

गङ्गाधरे जनपदे तत्पुरी पुष्करावती ।
साहं प्रभावती तुभ्यं धात्रा दिष्टा त्वयि प्रिया ॥ १०० ॥

पूर्वभार्यां परित्यज्य कान्तां मदनमञ्चकाम् ।
तां च वेगवतीं बालां त्वमन्यललनारतः ।। १०१ ॥

दुःखकारणमेतन्मे श्रुत्वेति नरवाहनः ।।
प्रियां स्मृत्वा शुचं लज्जामुत्कण्ठां च समं ययौ ।। १०२ ।।

दीपप्रदक्षिणव्याजात्तेनोद्वाहं विधाय सा ।
तं निनाय वधूं द्रष्टुं रुद्धां मदनमञ्चकाम् ॥ १०३ ।।

गच्छन्गगनमार्गेण दृष्ट्वा दिव्यनदीतटम् ।
प्रौढां नितम्बविपुलां प्राह तां नरवाहनः ॥ १०४ ॥

प्रभावति प्रियतमे हेमवल्लीनिकुञ्जके ।
अस्मिन्वरसरस्तीरे कृन्तुं त्वाभीहते मनः ।। १०५ ॥

प्रभावती निशम्येति वल्लभं प्राह सस्मिता ।
न संप्रति रतक्रीडां भजे लज्जावती त्वया ॥ १०६ ॥

स्मृतं मयाब्रवीद्यन्मां सखी मदनमञ्चुका ।
मदथै राजपुत्रं चेदानेतुं यासि सुन्दरि ।
न तत्कार्यं स्मरवशाद्वेगवत्या यथा कृतम् ॥ १०७ ।।

इति सख्यं मृषा क्वापि कृतवत्यस्मि चापलम् ।
गुप्तं तदधुना सेव्यं जानीते न यथा सखी ।। १०८ ॥

ज्ञात्वान्यकान्तासक्तं त्वां कदाचिज्जीवितं सती ।
जहाति विषमः स्त्रीणामीर्षाविषकृतो ज्वरः ॥ १०९ ।।

पुरान्यनरसंसक्ता चण्डी प्रच्छन्नकामिनी ।
निर्गतास्येत्य सततं ददौ पुत्राय मोदकम् ।। ११० ॥