भगीरथयशां नाम: तां प्राप्य नरवाहनः ।
न पूर्वपरिणीतानां सस्मार सुहृदो न वा ।। ८५ ॥
विशाललोचनदलं सुगन्धिस्सरकेसरम् ।
पिबतस्तन्मुखाम्भोजं भृङ्गता तस्य काप्यभूत् ।। ८६ ॥
इति भगीरथयशःप्राप्तिकथा ॥ ४ ॥
याते संध्यासखे क्वापि कदाचिदय भास्करे।
निमीलति जगत्पद्मे विशाला्श....लासिनी ॥ ८७ ॥
संकुचन्नलिनी खण्डसमुत्थैरलिमण्डलैः ।
मण्डितेष्वथ लोकेषु तिमिरच्छद्मना निशि ॥ ८८ ॥
ज्योत्स्नामृतनदीधौतव्योम्नि कान्तितरङ्गिणीम् ।
पाञ्चजन्यांशुविशदे मुरारेरिख वक्षसि ॥ ८९ ॥
कान्तासितैरिव स्नातैर्यशोभिरिव मार्जितैः ।
आनन्दैरिव संसिक्तैर्जातैर्जगति सर्वतः ॥ ९० ॥
सौधे भगीरथयशागाढालिङ्गननिर्वृतः ।
सुष्वाप पृथुमाणिक्यपर्यङ्के नरवाहनः ।। ९१ ।।
ततः प्रभावती नाम तं विद्याधरसुन्दरी ।
हा दुःखं दुःखमित्युक्त्वा ससंभ्रममबोधयत् ।। ९१ ॥
प्रतिबुद्धोऽथ ललनावदनं भदनोपमः ।
शरीररहितं ज्ञात्वा गवाक्षेण ददर्श सः ॥ ९३ ॥
तं दृष्ट्वा विस्मितोऽत्यन्तं राजपुत्रो व्यचिन्तयत् ।
अहो लोलालिकमिदं पतित ललनाननम् ॥ ९४ ॥
अथ विस्मयमापन्नोऽचिन्तयत्प्रयतः पुरा ।
वातापिदानवपतिश्चचारैको वनान्तरे ॥ ९५ ॥
अलक्तकारुणं पादं स ददर्श सनूपुरम् ।
शेषाङ्गहरितं तं च दृष्ट्वाभूद्विस्मयाद्व्यसः ॥ ९६ ॥
हर्षशोकाद्भुतस्तस्मात्सहसान्तः समुत्थिताः ।
सर्वेन्द्रियनिरोधेन सत्यजन्त्येव जीवितम् ॥ ९७ ॥