पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५६
काव्यमाला ।

वयं तश्चनविन्नेह(2) गीताभ्यासं परायणाः ।
निःशब्दजनसंचारे वल्लकीपाणयः स्थितः ॥ ७२ ॥

श्रुत्वेति गीतिकाभिझं सत्यमस्मीतिवादिनम् ।
वीणादत्तो निनायाशु तत्पुरं नरवाहनम् ॥ ७३ ॥

तत्रं गन्धर्वराजस्य सभायामभिपूजितः ।
शुश्राव वीणां तत्पुत्र्या सारमञ्च....मूर्छनाम् ॥ ७४ ॥

केशांशमिश्रया तघ्या श्रुत्यंशो विस्तरीकृतः ।
इत्युक्त्वा राजपुत्रस्तां स्वयं जग्राह वल्लकीम् ।। ७५ ॥

वाललेशं विचार्यासौ गायत्वैष्णवगीतकम् ।
वीणास्वनस्य वाद्येन गन्धर्वा विस्मयं ययुः ।। ७६ ॥

प्रतिज्ञापाठमुच्चार्य वरपुत्रीं वरे स्थिताम् ।
ततो गन्धर्वदत्तां स ददर्श वरवर्णिनीम् ॥ ७७ ॥

दृशा कुवलयाकीर्णा त्विषा शशिसमाकुलाम् ।
ब्भ्रूवा स्मरधनुर्व्याप्तं विदधानामिवाखिलाम् ॥ ७८ ॥

पित्रार्पिता तां लावण्यनलिनीं नरवाहनः ।
प्राप्य फुल्लोत्पलशं विजहार स्मराकृतिः ॥ ७९ ॥
इति गन्धर्वदत्ता प्राप्तिः ॥ ३ ॥

ततः कदाचिद्गन्धर्वबरोद्यानस्थितं दिवः ।
विद्याधरी समभ्येत्य प्राह तं. कन्यकानुगा ॥ ८० ॥

पुत्री ममेयं विद्यानां धामनाम्नाजिनावती ।
विद्याधरपतेश्चण्डसिंहस्य कुलभूषणम् ॥ ८१ ॥

असंशयं त्वया भाव्य विद्यामृञ्चकवर्तिना ।
तद्देया सुन्दरी तुभ्यमेतामर्हति नापरः ।। ८२ ।।

इह स्थितिर्न युक्ता ते मायिनोऽङ्गुलिकाधराः ।
अवन्तिनगरीमेहीत्युक्त्वा तमनयत्क्षणात् ।। ८३ ॥

राजा प्रसेनजित्तत्र तं. बरोद्यानचारिणम् ।
दृष्ट्वा ज्ञातान्ववायास्मै हृष्टः स्वतनयां ददौ ॥ ८४ ॥