पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३. पञ्चे-गन्धर्वदत्ताप्राप्तिः ।
४५५
बृहत्कथामञ्जरी ।

एवं द्रष्टुं मदनमञ्चकाम् ॥ ५९ ॥
इति वेगवतीपाति ॥ २॥
इति तद्वचसा व्योमरूढो..."नृपात्मजः ।
ददर्श कुलशैलेन्द्रान्बलाकानिव भूतले ॥ ६ ॥
जलपात्रमिवाम्भोधि नदीं शतपदीमिव ।
पश्यन्समीरणपथो स ययौ दयिताङ्कगः ॥ ११ ॥
क्षणं वेगवतीवऋशशाङ्कोद्भासितं नमः ।
बभूवामृतकल्लोलक्षाल्यमानमिवामितः ॥ १२ ॥
कुटिलावर्तविधुरं राजसूनोः सितांशुकन् ।
कर्पूरकर्णपूरत्वमगमद्गगनश्रियः ॥ १३ ॥
तस्य सूर्यकरोचण्डकुण्डलाताण्डवैर्बभौ ।
आखण्डलधनुर्दण्डमण्डितेवाश्रमण्डली ॥ १४ ॥
वेगानतिविलोलेन तस्या हारेण हारिणा ।
रापोद्दण्डडिण्डीरपाण्डुराब्धिनिभं नमः ॥ ६ ॥
अत्रान्तरे नरपतेः सहसान्तःपुरोदरे ।
उदतिष्ठद्गते तसिन्करुणो रोदनुध्वनिः ॥६६॥
प्रियासखः क यातो मे पुत्रको नरवाहनः ।
सा गत्वा तं समुद्रस्य तीरे कनकपर्वते ।। ६७. !
नीत्वास्थाप्य पुरं याता द्रष्टुं मदनमञ्चकाम् ।
तत्र विद्याधरपति सा तमन्धगृहेऽक्षिपत् ॥ ६८ ॥
वीणादत्ताभिधानोऽथ श्रीमान्दियकुमारकः ।
तमुजहार सख्येन कुलं सुकृतवानिव ॥ ६९ ॥
कथितान्वयनामानं नरवाहनमाह सः।
इह सागरदत्ताख्यो गन्धर्वाधिपतिपतिः ॥ ७० ॥
गन्धर्वदत्ता तस्यास्ति पुत्री तस्या मृगीदृशः।
विष्णुगीतिकृतज्ञाय देयाहमिति निश्चयम् ।। ७१ ॥