पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५४
काव्यमाला ।

बहुरूपं विधायाशु मणिमान्नाम राक्षसः ।
जहार मां ततस्तस्मै चुकोप मुनिमण्डलः ॥ ४७ ॥
स मां विमुच्य प्रोवाच मुनिक्रोधावधिर्मम ।
कौबेरोऽयं गतः शापो निगद्येति दिवं ययौ ॥ ४८ ॥
ततोऽहमपि कालेन तुष्टस्य पितुराज्ञया ।
अवापमखिला विद्यास्तत्प्रभावाधिकप्रभाः ॥ ४९ ॥
अत्रान्तरे स्मरोन्मत्तो विप्रलोक्य विशृङ्गलः ।
जहार तब माता प्रियां मदनमञ्चुकाम् ॥ ५० ॥
अलक्षितस्तामादाय निर्मर्यादः पतिव्रताम् ।
अयाचत रतिं पाप शप्तः स्वर्गमममिव (१) ।। ६१ ॥
दशास्यस्येव शापोऽस्ति तस्याप्यन्यवधूरतेः ।
पावयनामिति स्वैरं मामलज्जन्ततोऽवदत् ॥ १२ ॥
तूर्ण मानसवेगेन प्रेरिताहं तव प्रियाम् ।
अददं मानुषी किं त्वं शक्रतुल्ये निरादरा ॥ ५३ ।।
श्रीमान्मादसवेगोऽयं कस्या नयनप्रियः ।
का हि दैवविपर्यस्ता मधुरं वेत्ति नामृतम् ॥ १४ ॥
इति मद्वचनं श्रुत्वा साध्वी मदनमञ्चका ।
निःश्वस्य साश्रुनयना मत्पुरत्त्वद्यशोऽभ्यधात् ॥ ५५ ॥
श्रुत्वैव त्वद्गतमतिस्ततोऽहमभवं विभो ।
मनोभवभुजङ्गो हि यत्सत्यं श्रुतिलोचनः ॥ १६ ॥
गौरीवरो ममाञ्च यस्य नानि श्रुतिं गते ।
वशमेध्यसि कामस्य स. ते भर्ताः भविष्यति ॥ १७ ॥
तवस्तां वरमामय बद्धवेणी पतिव्रताम् ।
त्यामागतासि तद्रूपा प्राप्तुं परिणयश्रियम् ॥ ५८ ॥
पूर्णश्च मम संकल्पः प्रमाणमधुना भवान् ।