पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
ञ्चे-बैगवतीप्राप्तिः ।।
४५३
वृहत्कथामञ्जरी ।

निर्मितामिव लावण्यैः कम्पितामिव यौवनैः
निष्पन्नामिव पीयूषैर्वीक्ष्यैतां निश्चलोऽभवत् ।। ३४ ॥
अमानुषोचितस्फारं प्रभाभरितमाननम् ।
स तस्या हेमकमलच्छायं दृष्ट्रा सम्यं ययौ ॥ ३५ ॥
अहो दिव्यवधूः कान्ता केयमानन्दकौमुदी ।
बिभर्ति मत्प्रियावारूपमिति स्वैरं विचिन्तयत् ॥ ३६ ।।
क्व सा प्रियेति दुःखार्तो निर्विशेषेऽतिविस्मितः ।
दिव्येति धन्यतामानी सोऽभूद्दोलाचलाशयः ॥ ३७ ॥
तत्कान्तिपानहृष्टोऽपि विना मदनमञ्चुकाम् ।
सद्यस्तत्याज स धृतिं प्रेमवन्धो हि रम्यता ॥ ३८ ॥
सहसा प्रतिबुद्धाथ पादसंवाहनोद्यतम् ।।
तमालोक्य तु सा प्राह हृष्टा विनयशालिनी ॥ ३९ ॥
अस्ति विद्याधराधीशो यशस्वी वेगवानिति ।
यस्यावाढपुरे रम्या राजधानी मनोजवा ॥ ४० ॥
तस्या मानसवेगाख्यः पुत्रो बलवतां वरः ।
सुता वेगवती चाहं त्वन्मुखेन्दुचकोरिका ॥ ४ ॥
स कदाचिन्निजयशः शुभ्रं पलितमात्मनः ।
दृष्ट्वाभिषिच्य तनयं विरक्तोऽभूद्वने मुनिः ॥ ४२ ॥
याचितोऽपि मया भ्राता कुलविद्यापदस्थितिम् ।
मात्सर्यान्न ददौ लुब्धो न हि खजनवत्सलः ॥ ४३ ॥
ततस्तपोवनस्थस्य गत्वाहं पितुराश्रमम् ।
स्थिता सपर्यासंतोषप्रसादितमुनीश्वरी ।। ४४ ॥
तत्र केलिकलालोला कदाचिन्मत्तबर्हिणम्।
अङ्गहाराभिधं बाला करतालैरनर्तयम् ॥ ४५ ॥
नृत्यतस्तस्य बिबभौ कलापो विविधच्छविः ।
व्योमयानादिव गतः शक्रचापः सहस्रधा ॥ ४६ ।।.