पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५२
काव्यमाला ।

गोमुखाङ्कनिषण्णाङ्गं प्रियाविरहमोहितम् ।
उद्याननलिनीतीरे मरुतस्तं सिषेविरे ॥ २१ ॥
मरुभूतिरथान्येत्य दन्तांशुनिवहैः सुधाम् ।
विकिरन्निव तं प्राह हर्षव्याकोशलोचनः ॥ २२ ॥
दिष्टया विवर्धसे देव दृष्टा मदनमञ्चुका ।
इयमास्ते सुवदना रक्ताशोकतरोरधः ॥ २३ ॥
श्रुत्वेति सहसोत्थाय प्रहृष्टो नरवाहनः ।
न सत्यं दर्शय क्वासावित्याहोत्कण्ठिताशयः ॥ २४ ॥
मन्यमानस्ततः स्वमं गत्वा तद्दिष्टवर्त्मना ।
न ददर्श प्रियां स्फारनेत्रपात्रं पिबन्निव ॥ २९ ॥
किमेतदिति सानन्दं पृष्टा तेन सुमध्यमा ।
साब्रवीन्नवलावण्यैः पूरयन्ती दिगन्तरम् ॥ २६ ॥
पुरा त्वत्संगमोपाये यक्षः संतोषितो मया।
.... बलिप्रदानेन पानं तस्मै तु नार्पितम् ।। २७ !!
तस्मादयं वियोगोऽभूदाबयोः क्षपितश्च सः ।
इत्याह कृतकाकारतुल्या मदनमुञ्चका ।। २८ ।।
सुतप्रियस्रुषां ज्ञात्वा लब्धां वत्सनरेश्वरः ।
कौशाम्बीमुत्सवस्मेरसिन्दूरारुणितां व्यधात् ॥ २९ ॥
पुनर्विघ्नविनाशाय कल्पितोद्वाहमङ्गलम् ।
कूटविद्याधरी तस्थौ नरवाहनकामिनी ॥ ३० ॥
ततस्तद्वदनामोदसुगन्धमधुनिर्वृतः ।
ययौ वत्सेश्वरसुतः सेव्यमानः सुहृज्जनैः ।
यत्नात्स दयितां मेने स्पर्शे मदनमञ्चुकाम् ॥ ३१ ॥
निद्रानिमीलितदृशो वदनं मम वल्लभ ।
न द्रष्टव्यं त्वयेत्याह सा न हारादिव प्रियम् ॥ ३२ ॥
ततः सुरतसंमर्दै गाढनिद्रां सकौतुकः
ददशौशुकमुद्धाट्य तां विनिद्रो नृपात्मजः ॥ ३३ ॥