पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३. पञ्चे-वेगवतीप्राप्तिः ।
४५१
बृहत्कथामञ्जरी

अष्टावक्रस्य तनयां सावित्रीमङ्गिरा पुरा ।
धर्मपत्नीमवाप्यासीद्गृहाश्रमसुखस्थिति: ॥ ६॥
ध्यानस्थितं कदाचितं सा दृष्ट्वा दयितं प्रिया ।
अन्यां चिन्तयसीत्युक्त्वा ययौ कोपपराङ्गुखी ॥ १० ॥
सा गत्वा काननोपान्तं पाशं कण्ठे निवेशयत् ।
प्राणास्तूर्णं हि नारीणां प्रियप्रणयतानवे ॥ ११ ॥
सवित्र्या सा ततोऽभ्येत्य देव्या दिव्यशरीरया ।
सावित्री रक्षिता पाशादितीर्ष्याकलुषा: स्त्रिया: ॥ १२ ॥
इति सावित्र्याख्यायिका ॥ १ ॥
इति सेनापतिवचः श्रुत्वा वत्सनरेश्वरः ।
यौगंधरायणसखो बभूव ध्याननिश्चलः ॥ १३ ॥
नरवाहनदत्तोऽपि प्रियाविरहमोहितः ।
नोद्यानेषु न वापीषु न हर्म्येष्वाययौ रतिम् ॥ १४ ॥
दोलासु चित्रशालासु वासवेश्मसु कानने ।
न बबन्ध धृतिं वीर: कोप वा विप्रये विधिः (1) ! १५ ॥
गुरुलज्जाङ्कुशस्त्वैवं मित्रेणाश्वासितस्य च ।
पुटपाक इवासक्तस्तस्याभूच्छोकपावकः ॥ १६ ॥
स प्रविश्य पुरोद्यानं विमाने सुरभिण्यपि ।
शुशोच तत्कुचापीडफुल्लां कुरुबकावलीम् ।। १७
दयितामधुगण्डूषचरणाघातपुष्पितौ ।
अशोकबकुलौ दृष्ट्वा प्रियाकेलिशिखण्डिनम् ॥ १८ ॥
बहिं बिभर्ति यस्तस्या कटाक्षपटलीमिव ।
न हि तं फुल्लकमलं पूर्णचन्द्रां न वा निशाम् ।
स सेहे चन्द्रबदनावदनध्यानतत्परः ॥ १९ ॥
सरोजनयनां वापी रथाङ्गपुलकस्तनीम् ।
हंसालीरसनां वीक्ष्य शुशोच स्मृतवल्लमः ॥ १० ॥