पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५०
काव्यमाला ।

इत्याकर्ण्य सुहृद्धचः प्रियतमासंप्राप्तिचिन्तापरः
केयूरार्पितकङ्कण: शिखिसखैर्निःश्वासवातैर्मुहुः ।
म्लानिं हारलतां नयन्दिनशशिव्यापाण्डुगण्डस्थल-
स्तस्थौ बालमृणालपल्लवमये श्रीवत्सराजात्मजः ॥ ११५ ।।
इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथायां पद्मावती नाम द्वादशो लम्बकः ।



पञ्चलम्बक:।


वल्लत्कालीकटाक्षावलिकलित इव स्फारहाराहिराज-
स्फूर्जहंष्ट्राग्रधूभभ्रममलिन इव त्र्यम्बकस्याशु कण्ठः ।
भूत्यै वः क्षिप्तकणै प्रणयिकरधृतः केकिपिच्छाभिरामै-
गौंरी लीलाकिराती भवति पुनरिव प्रेषिभिर्यन्मयूखैः ॥ १ ॥
अत्रान्तरे क्वापि यातं पुनः प्राप्तमथात्मजम् ।
दृष्ट्वा लोभरतिं वीरो वत्सराजः प्रियासखः ॥ २ ॥
तं वल्लभावियोगातै ज्ञात्वा वत्सनरेश्वरः ।
बभूव सह देवीभ्यां शोकपावकमूर्छितः ॥ ३ ॥
स मरुण्वानवदत्कुपितः पृतनापतिम् ।
युष्माभिर्बान्धवै: किं मे रक्षितं नृपतेरिति ॥ ४ ॥
सोऽब्रवीद्देव सर्वत्र नास्माभिरनधिष्ठितम् ।
प्राकारगोपुरादालं कृतमव्यग्रमानसैः ॥ ५ ॥
वयं कस्य वराकस्य लोके परिभवास्पदम् ।
भवत्प्रतापसिन्दूररक्षातिलकमुद्रिताः ॥ ६ ॥
किं तु न प्रभवामोऽत्र देव व्योमविहारिणाम् ।
विद्याधराणां तैर्मन्ये कृतः कार्येषु विप्लवः ॥ ७ ॥
अथ चा राजपुत्रेण गोत्रस्खलनकोपिता।
स्थित्ता मानवती कापि छन्ना मदनमञ्चुका ॥८॥


प्राईभि । इति भवेत