पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४८
काव्यमाला ।

सुहृदा संयताख्येन तुषारकणवर्षिणा ।
आश्वास्यमानं प्रत्यारम्भापल्लवशायिनम् ।। ८९ ॥
मुहुः पद्मावतीमेव विलपन्तमुपेत्य तम् ।
सखी विरहवृत्तान्तं सा तस्मै तन्न्यवेदयत् ॥ ९० ॥
सहसामृतवर्षेण प्लाव्यमान इवाथ सः ।
तया तदुपदिष्टेन प्रययौ हिमवत्तटीम् ॥ ११ ॥
तत्रोपवनपर्यन्ते सिद्धर्षिगणसेविते ।
गौरीमिवेश्वरप्राप्त्यै बद्धध्यानां ददर्श ताम् ॥ १२ ॥
प्राप्य पद्मावतीं कान्तां स तां मन्मथतापिताम् ।
स्मरहर्षरसाकृष्टस्तपोवनमुपाविशत् ॥ १३ ॥
समुल्लङ्घयाश्रमद्वारं प्रयातं वल्लभान्तिकम् ।
मुनिर्दृढव्रतो दृष्ट्वा भुवं गच्छेत्यथाशपत् ॥ १४ ॥
दैवादमृतमासाद्य भग्नं मत्वेव भाजनम् ।
स शापदुःखात्प्रययौ शरणं तद्गुरुं मुनिम् ॥ ९५ ॥
स तं कुलपतिः प्राह वत्स मा दुःखितो भव ।
अवश्यंभाविनो भावान्भूत्वा... यान्ति संक्षयम् ॥ ९६ ॥
पुरा देवासुररणे मोहनास्त्रे त्वयेरिते।
अभूतां दानवपुरे वियुक्तौ किल दम्पती ॥ ९७ ॥
कान्तावियोगस्तच्छापादयं ते समुपस्थितः ।
अयं तु मुनिशापस्ते प्रयातः पुनरुक्तिताम् ॥ ९८॥
असावल्पापरावेऽपि पृथुकोपो दुराशयः ।
दृढव्रतस्ते मर्त्यस्य यातु वाहनपक्षिताम् ॥ ९९ ॥
इति श्रुत्वा मुनिवचो मुक्तकेतुरगाद्रुतम् ।
चन्द्रचूडसमादिष्टं गणं प्राप्यानुगं क्षणात् ॥ १० ॥
इति मुक्तकेतुशापः ॥ ३ ॥
ततो देवसमामिख्ये पुरे सुरपुरोपमे ।
मेरूध्वजस्य नृपतेः स श्रीमान्प्राप्य पुत्रताम् ॥ १०१ ॥
RASHIRKare