पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२. पद्मावत्याम्-मुक्तकेतुशायः]
४४७
बृहत्कथामञ्जरी ।

ततः शक्रमुखा देवाः संप्राप्तविजयोत्सवाः ।
विविशुश्विरसंघृष्टनन्दनाममरावतीम् ॥ ७७ ।।
इति विद्युद्धृजवधः ॥ २ ॥
संपूजितोऽथ शक्रेण स्तूयमानो नभश्चरैः ।
पितुश्चन्द्रावलपुरं मुक्तकेतुर्ययौं बली ॥ ७८ !!
तत्र पद्मावती ध्यायन्विरहानलदुःसहाम् ।
बभूव पाण्डरच्छायः शशीव दिनभूधरः ॥ ७९ ॥
पद्मावती च हिमवत्तटोपान्तवनस्थलीम् ।
समेत्य तस्थौ विरहव्यथया. सुविसंस्थुला ॥ ८॥
सा समाश्वास्यमानेव वल्लीभिर्भृङगकूजितैः ।
मुहुर्मूछौं न तत्याज मुक्तकेतुप्रलापिनी ।। ८१ ॥
दीर्घं निःश्वस्य बाष्पाम्बुपूरप्लावितलोचना ।
पट्टे लिलेख दयितां तदाकारागिणीं...."
ततो मनोहरा नाम सखी तो द्रष्टुमाययौ ।
विचित्योपवनोपान्तं शङ्कितां विजने स्थिताम् ॥ ३ ॥
तया लिखितमालोक्य सा लतान्तरिता प्रियम् ।
मुक्तकेतुं परिज्ञाय स्वैरं साध्वित्यभाषत ।। ८४ ॥
ततः सखी स्मितमुखी रहः प्राह मनोहरा ।
लज्जानताननाम्भोजां मीलितार्धविलोचनाम् ॥ ८5 ॥
अभिलाषोऽयमुचितो न ते लज्जाकरः सखि ।
मनो विधत्ते कमला नान्यत्र पुरुषोत्तमात् ॥ ८6 ॥
समाश्वसिहि गच्छामि व्योम्ना द्रष्टुं तव प्रियम् ।
मन्ये त्वद्विरहायासात्सोऽपि न स्वस्थविग्रहः ।। ८७ ]
इत्युक्त्वा सा विमानेन गत्वा चन्द्रावलं पुरम् ।
मुक्तकेतुं निजोद्याने दुदर्श मदनातुरम् ॥ ८८ ॥