पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२. पावत्याम्-विद्युद्धृजवधः ।
४४५
वृहत्कथामञ्जरी ।

बन्दिग्रहगृहीतासु सुरनारीषु दानवैः ।।
उच्छ्वासैर्दीपयन्तीषु तत्प्रतापानलं मुहुः ॥ ५२ ।।
अर्थितः सुरराजेन मुक्तकेतुः शिवाज्ञया !
प्रतस्थे त्रिदिवं तूर्णं महादैत्यरणोत्सुकः ॥ ६३ ॥
स व्रजन्नभसा तूर्णं विद्याधरनृपात्मजः ।
ददर्श पार्वतीपूजाव्यग्रां गन्धर्वपुत्रिकाम् ॥ १४ ॥
कान्तामभिनवोद्याने स तां पद्मावतीं युवा !
निर्वर्णयन्क्षणमभूत्कौतुकोत्कलिकाकुलः ॥ ५५ ।।
राजधानीमनङ्गस्य वज्रनाम्बुधुनीं रतेः ।
विभ्रमाणां कुलगृहं लीलोद्यानं मदश्रियः ॥ १६ ॥
स तामालोक्य शीतांशुतौन्दर्यस्येव देवताम् ।
बभार मानसं हर्षात्तुङ्गवीचितरङ्गितम् ।। ५७ }}
अत्रान्तरे समुत्थाय राक्षसीयुगलेन सा ।
पातालाभूमिकोपेन गृहीता कल्पिताकृतिः ॥ 5८ ॥
संत्रासविह्वला बालां तां लोलनयनां ततः
ररक्ष गन्धर्वसुतां मुक्तकेतुर्निहत्य ताम् ।।5९ ॥
साथ तद्भयनिस्तीर्णा तं विलोक्य स्मरोपमम् ।
पुलकालंकृततनुः कम्पसंपद्युताभवत् ।। ६० ।।
ततो बन्दिगिराकार्य तौ नामाभिजनौ मिथः ।
नानन्दतुः संगमाशां विधाय विपुलां ह्रदि ॥ 6१ ॥
अथ नाकिगणाहूतो दैत्येन्द्रसमरावनिम् ।
प्रययौ मानसं तस्यां विन्यस्य स्मरतापितः ।। 6२ ।।
तन्त्र विद्युद्धृजमुखैरसुरैः संप्रहारिभिः ।
प्रावर्तत महायुद्धं मुक्तकेतोः सुरश्रिये ॥ ६३ ॥
देवदानवसंग्रामे तस्मिन्नतिभयंकरे ।
क्षुभ्यत्तप्ताब्धिकल्लोलमालिका विचचार भूः ।। ६.४ ॥


१. संहर्षी का