पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४४
काव्यमाला ।

जम्भारिरथ संप्रासं संस्मृत्य त्रिपुरान्तकम् ।
चक्रे पाशुपतास्त्रेण संहारं त्रिदशद्विषाम् ॥ ३९ ॥
विद्युद्धृजस्य जनको महद्भिर्दानवोत्तमैः ।
तेनास्त्रवह्निना दग्धः प्रययौ शाश्वतं पदम् ॥ १० ॥
लब्धलक्ष्येषु देवेषु विध्वस्ते दैत्यमण्डले ।
लज्जाविभुग्नवदनो वनं विद्यद्धृजो ययौ ॥ ४१ ॥
तत्र वर्षायुतं कृत्वा तपःसंतापितामरम् ।
देवैरप्यभवधुद्धे वरं प्राप से शूलिनः ॥ ४२ ॥
गत्वाथ त्रिदिवं व्योम्ना संग्रामे वज्रिणं जयी ।
विद्राव्य सुरगन्धर्वकिन्नरानकरोद्वशे ॥ ४३ ।।
परित्यज्य प्रयातेषु स्वपुराण्यथ तद्भूयात् ।
कापि देवनिकायेषु मत्तेषु दितिसूनुषु ।। ४४ ॥
अमृष्यमाणस्तां मानम्लानिं विद्याधराधिपः ।।
वज्रकेतुस्तपस्तप्त्वा पुत्रं प्रापासुरान्तकम् ॥ ४५ ॥
स मुक्तकेतुनामाभूत्तस्येश्वरवरात्सुतः ।
देवा यस्य बलाघाने बभूवुः सततोद्यताः ॥ ४६॥
भाविनीं वल्लभां तस्य गन्धर्वाधिपतिः सुताम्
प्राप पद्मावतीं शर्वप्रसादात्पद्मशेखरः ॥ ४7 ॥
अत्रान्तरे दैत्यजिता मधुहन्तारमच्युतम् ।
श्वेतद्वीपं समभ्येत्य त्रिदशाः शरणं ययुः ॥ 4८ ॥
तेनादिष्टाः स्मरहरं प्रयातास्त्रिपुरान्तकम् ।
गीर्वाणाः शुश्रुवुस्तस्मान्मुक्तकेतुं परायणम् ॥ ४९ ॥
सिद्धक्षेत्रे ततश्चक्रे मुक्तकेतुर्महत्तपः ।
येनास्य सिद्धयः सर्वा बभूवुरभिसारिकाः ॥ ५0 ॥
दर्षाद्विधुद्धृजेनाथ त्रैलोक्ये आकुलीकृते ।
शून्यारण्यतुलो नीतं नन्दने छिन्नचन्दने ॥ ५१ ॥


एतरकोष्ठान्तर्गतपाला ख-पुस्तके त्रुटितः: