पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२. पद्मावत्याम्-विद्युद्धजयधः ।]
४४३
बृहत्कथामञ्जरी ।

भासतां च ततः प्राप्तौ क्रमेण च मयूरताम् ।
शिवार्चनरतौ काले जाति स्मृत्वा च हंसताम् ॥ २७ ॥
प्राप्तौ ततोऽपि वैचित्र्यं हेमरत्नमयाकृती ।
तावावां पार्वतीशप्तौ मृगेश्वरगुहेश्वरौ ॥ २८ ॥
स पुष्पशेखरस्त्वं च त्वत्प्रियेयं जयात्मजा !
महामात्यश्च ते राजन्धूर्जटोऽयं गणाग्रणीः ॥ २९ ॥
तदेहि तूर्णं गच्छामः सिद्धिक्षेत्रं महागिरिम् ।
प्राङ्मुक्ताकेतुना यत्र मुक्ता लक्ष्मीस्ततः श्रिया ॥ ३०॥
इति हंसवचः श्रुत्वा ब्रह्मदत्तः प्रियासखः ।
मन्त्रिणा सह ताभ्यां च व्योम्ना जातिस्मरस्तु सः॥ ३१ ॥
अद्य स्थानं समासाद्य ते विज्ञानमयाः क्षणात् ।
शांभवं पदमभ्येत्य ...'गता भेजिरे निजाम् ॥ ३२॥
इति ब्रह्मदत्ताख्यायिका ॥१॥
गोमुखेनेति कथितं निशम्य नरवाहनः ।
मुक्तकेतुकथाजातमपृच्छत्कौतुकाकुलः ॥ ३३ ॥
स पृष्टः प्राह सुहृदं मन्मथार्तं विनोदयन् ।
मुक्तकेतोः शृणु कथां देव विद्याधरप्रभोः ॥ 3४ ॥
अभूद्विधुत्प्रभो नाम दैत्यानामधिपो बली ।
विद्युद्धृजः सुतस्तस्य तीव्रेण तपसाभवत् ।। ३5 ।।
सोऽपि घोरेण तपसा प्रजापतिवरात्कृती
विना पाशुपतं प्राप दिव्याण्यस्राण्युदारधीः ॥ 36॥
स पित्रा सहितो गत्वा सेव्यमानो महासुरैः।
स्वयं शतक्रतुस्तस्य वज्रनिर्दारितासुरः।
चचार समरे वीरो मरुद्भिरभितो वृतः ।। ३७ ॥
ततो विधुद्धृजोत्सृष्टेर्ब्रह्मास्त्रप्रमुखैर्युधि ।
महास्त्रैरभवन्देधा(? दातव्याप्ता इवाद्रयः ॥ ३८ ॥


१. भूगेश्वरगुहेश्वरौ ख.