पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४२
काव्यमाला ।

तच्छ्रुत्वा गिरिजा प्राह पत त्वमपि भूतले ।
ईश्वरा गाढनिर्बन्धं यान्ति धार्ष्ट्य निवारिताः ॥ १४ ॥
सुतास्नेहात्ततः प्राप्य जया गौरी व्यजिज्ञपत् ।
देवीसेवाजुषां... "शापस्यान्तो विधीयताम् ॥ १5 ॥
इत्यर्थिता सा तपसा तया प्रोवाच पार्वती !
एकत्र संगताः जातिं स्मृत्वैष्यन्ति निजं पदम् ॥ १६ ॥
इत्युक्ते शंकरस्तूर्ण सतीसंदर्शनोत्सुकः ।
व्योम्ना मनोरथेनेव समभ्यायात्ककुद्मता ॥ १७ ॥
सिप्राप हर्षपीयूषवर्षिणीं हिमवत्सुताम् ।
अश्रृणोदन्धकाक्षं तं निकामं तु परम्परा ॥ १८ ॥
ततस्तं विदधे क्रुद्धो भगवानस्थिपञ्जरम् ।
मुस्ताङ्गः सोऽपि त ..सा भृङ्गिरित्यभवद्गणः ॥ १९ ॥
अत्रान्तरे यौ गिरिजाशप्तौ पिङ्गगुहेश्वरौ ।
द्विजस्य पुत्रतां यातौ यज्ञस्थलनिवासिनः ॥ २० ॥
ततस्तावतिदारिद्यान्मातामहगृहे स्थितौ ।
मातुलेन पशुप्रायौ नियुक्तौ पशुरक्षणे ॥ २१ ॥
अथैकं भक्षितं दृष्ट्वा ताभ्यामृक्षविदारितम् ।
छागलं मातुलः शापं ददौ रक्षस्तनुप्रदम् ॥ २२ ॥
ततस्तौ राक्षसौः घोरौ कदाचिद्धन्तुमुद्यतौ ।
पतितात्तस्य शापाच्च वने यातौ पिशाचताम् ॥ २३ ॥
कालेन दुर्दिने होमधेनुरक्षाकुमारकम् ।
भोक्तुं मुनेरुद्यतौ च शापाचाण्डालतां गतौ ॥ २४ ॥
कर्णनासाविरहितौ शबरैश्चौर्यकोपतः ।
कृतौ गत्वा शिवगृहं धेनुं हन्तुं समुद्यतौ ॥ १५ ॥
अन्धीकृतौ भगवता दृष्टौ पौरजनैस्ततः ।
निराहारौ वायसतां किंचित्कर्मक्षयाद्गतौ ।। २६ ॥


पर असर