पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१.२. पद्मावत्याम्-ब्रह्मदत्ताख्यायिका )
४४१
हरकथामारी ।

पद्मावतीलम्बकः


जाह्नवीधूर्जटिजराकुन्दमाला पुनातु वः ।
राजहंसश्रियं धत्ते यद्वावि(१)बलये शशिः ॥ १ ॥
ततो विरहसंतप्तं प्रियां मदनमञ्चुकाम् ।
विलपन्तं सुहृत्प्राह गोमुखो नरवाहनम् ॥२॥
धैर्यसागर कोऽयं ते मन्मथानलविप्लवः ।
एष ह्यसंवृत्तः सत्यं महतामपि दुःखदः !! ३ ॥
ब्रह्मदत्त इति ख्यातो वाराणस्यामभून्नृपः ।
कीर्तिरासागरं यस्य गता गन्तेव भूभृतः ॥ ४॥
तस्य सोमप्रभा नाम भार्या सोमप्रभाभवत् ।
मन्त्री च धीमतां धूर्यः शिवभूतिरिति श्रुतः ॥ ९
स. कदाचिन्नृपश्चन्द्रकान्तिभूते नभस्तले ।
सौधोत्सङ्गगतोऽपश्यन्निशीथे हंसमालिकाम् ॥ ६ ॥
तन्मध्ये काञ्चनमयं प्रवालचरणोज्ज्वलम् ।
ददर्श हंसमिथुन शुक्ला रुचिरलोचनम् ॥ ७ ॥
पृष्टौ राज्ञा प्रोचतुस्तौ पूर्ववृत्तमथात्मनः ।
पुष्पशेखर इत्यासीद्दुर्विनीतो गणः पुरा ॥ ८ ॥
जयायाः कन्यया सार्धं संस्थितो दुर्विनीतया ।
दृष्ट्वा गणौ जहसतुर्मृगेश्वर(गुहे)श्वरौ ॥ ९ ॥
अकाण्डे प्रणयं तेषां विलोक्य त्रयम्बकप्रिया ।
कोपाग्निधूमलतिकां बभार भृकुटीं मुखे ॥ १0 ॥
सावदद्दुर्विनीतोऽयं कन्ययैव सहानया ।
मर्त्यतां यातु निर्लज्जो विलासी पुष्पशेखरः ॥ १1 ॥ .
हासशीलावपि पुरावेतौ चापलसूचकौ ।
बहुशः कुत्सितां जातिं प्राप्य बोधः श्रुपास्यत(१) ॥ १२ ॥
इति शप्तेषु पार्वत्या तेष्वेकः प्रमथोऽब्रवीत् ।
कृपया धूर्जटी नाम देवि दासेषु मा क्रुध ॥ १३॥