पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४०
काव्यमाला ।

अपश्यं कुञ्जरत्रस्ता पुरुष मन्मथोपमम् ।। ७२ ॥
तेन पद्मदलाक्षेण यूनाहं भयविह्वला ।
गाढमालिङ्गिता येन मामद्यापि स्मरज्वरः ।। ७३ ॥
तं मदं मदनस्यापि यौवनस्यापि यौवनम् ।
तं विस्मरति मे मन्ये मनो जन्मान्तरेष्वपि ॥ ७४ ॥
ततोऽहं कुञ्जरभयात्तद्वियुक्तो निजं गृहम् ।
कण्ठे गृहीत्वा सोत्कण्ठं लब्धजीव इवाभवम् ।। ७5 ॥
सापि मा मन्मथाविष्टा दृष्ट्वाभ्यस्तं मनोरथैः ।
प्लावितेवामृतस्यन्दैरभवत्स्मेरचन्द्रिका ।। ७६ ॥
ततस्तयाहं गूढेन द्वारेणालक्षितो निशि ।
निर्गतो लघुसंचारो मधुमत्तजनाद्गृहात् ॥ ७७ ॥
दूरं गत्वा वनं प्राप्तः.........
सौजन्याद्विहितातिथ्यः कृतोऽहं मृगयाज्ञया ।। ७८ ॥
दैवादिष्टमिमं मार्गं विचिन्त्य दयितासखः ।
इह त्वया संगतोऽहमानन्देनेव रूपिणा ॥ ७९ ॥
इति तद्वचनं श्रुत्वा दृष्टोऽहं जाह्नवीतटे
स्थितोऽद्य यावत्तावत्वं मया दृष्टो नृपात्मजः ।। ८० ॥
अयं मम सखा बन्धुः सहजः स्वर्गमेव च ।
राजसूनो मनःसिन्धुचन्द्रः प्राणाः बहिश्चराः ॥ ८१ ॥
इति द्विजसुतेनोक्तं निशम्य नरवाहनः ।
शनैर्बबन्ध सानन्दो दयितासंगमे धृतिम् ॥ ८२ ॥
अथ स.निजसुहृद्भिः संगतो गोमुखाद्यैः
प्रणयविभत् मौलितौ समानस्य विप्रौ() ।
विरहविघुरधैर्यः संस्मरन्वल्लभायाः
प्रविशिथिलमयासीत्स्वां पुरी राजपुत्रः ॥ ८३ ॥
इति क्षेमेन्द्रविरचितायां बृहत्कथायं मदिरावती नाम एकादशो लम्बकः समाप्तः ।