पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३८
काव्यमाला ।


जग्राह निबिडं कण्ठे मासान्तभयविह्वला ।
स्पर्शहर्षामृतासिक्तकम्पितोच्चकुचस्थलीम् ॥ ४८ ॥
भूयात्ते करिणी सज्जौ मदलेशविलासन ।
कृतोपकारं तं नागमित्यहं मनसाभ्यधाम् ॥ ४९ ।।
ततः पृथुलफूत्कारशीकराबद्धदुर्दिनः ।
आवर्तितः करोत्कारः क्षणात्प्राप्तो मदन्तिकम् ॥ 5०॥
तद्भयाद्विद्रुते दूरं जनसंघे सहस्रधा ।
नापश्यं पद्मवदनां क्वचित्तां तरलेक्षणाम् ॥ 5१ ॥
ततोऽहं तद्वियोगार्तो यातेऽस्तं नलिनीप्रिये ।
चक्राह इव यामिन्यां विलापमुखरोऽभवम् ।। ५२ ।।
अथ चन्द्रकरस्मेरकुमुदामोदशालिभिः ।
विषवेगैरिवासिक्तो रजनीपवनैरहम् ॥ 5३ ॥
एवं प्रतिनिशं कान्तावियोगविधुराशयः ।
भ्रान्तोऽपि निखिलां पृथ्वीं तां न पश्यामि सुन्दरीम् ॥ ५४
बद्धस्पृहोऽपि निधने धारयाम्येव जीवितम् ।
प्रियलाभा भवन्त्येव सत्सु प्राणेषु देहिनाम् ॥ ५५ ॥
अद्य त्वमपि दुःखार्तों रक्षितो मरणान्मया
अनुभूतव्यथः सर्वो जानाति परवेदनाम् ॥ ५६ ॥
धीरो भव भवे दैवात्कदाचिन्मदिरावतीम् ।
अवाप्स्यसीति तद्वाक्यं श्रुत्वाहं धृतिमाश्रितः ।। 5७ ।
ततस्तेनैव सहितः पूजास्मरनिकेतनम् ।
यातः परिणये रन्तुं यत्रायान्ति पुराङ्गनाः ॥ 58 ॥
तत्र गर्भगृहे गूढं स्थिते. मयि तदाशया ।
विवाहे स्मरपूजायायाययौ मदिरावती ॥ 5९ ॥
उत्साहवाद्यनिर्घोषक्षुभिते जनसागरे ।
विराजमाना लावण्यपीयूषैः श्रीरिवोदिता ॥ ६0 ॥


इंति माठों भवेत