पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११. मदिरावस्याम्-द्विजपुत्रकथा ।
४३७
बृहत्कथामञ्जरी

भवत्येवात्र संसारे दृष्टनष्टा मुहुर्मुहुः ।
संयोगाश्च वियोगाश्च तथा च श्रृणु तत्कथाम् ॥ ३६ ॥
अहं कुमारको नाम नेपालविषयाश्रयः ।
द्विजन्मा निखिलां पृथ्वीं भ्रान्तो विषयकौतुकात् ॥ ३७ ॥
ततः शङ्खमुखं नाम हिमवत्कच्छसंश्रयम् ।
अवापं विविधोद्यानं वसन्तस्येव मन्दिरम् ॥ ३८ ॥
शङ्खपालह्रदे तत्र यातयामे महोत्सवे !
स्नानपूजारसव्यग्रसुन्दरीमन्दमण्डले ॥ ३९ ॥
अपश्यं कन्यकां कान्तां नवयौवनशालिनीम् ।
अशर्वानिव शर्वाशीमचन्द्रामिव रोहिणीम् ॥ ४0॥
विभ्रमाणां कुलगृहं क्षेत्रं कान्तेः पदं तरोः।
त्रिजगज्जयिनः शक्तिं मूर्तामिव मनोभुवः ।। ४१ ॥
तां चन्द्रवदनां दृष्ट्वा कुरङ्गनयनामहम् ।
रम्भोरूं रम्भया तुल्यां गत्वैव गजगामिनीम् ।। ४२ ॥
पुराहं राजपुत्रस्य याता क्रीडामपूरताम् ।
तस्यां मदाननन्यस्तलोचनायां महागजः ॥ ४३ ।।
प्रतिद्वीपरूपान्यायाजनकोलाहताकुल:(!) ।
भ्रमद्भ्रमरसंभारमदाम्भोराजिराजितः ॥ ४4 ॥
मन्द..द्विरिवोच्चञ्चत्कालकूटघटाकुलः ।
सरोविलोडनक्रीडाडम्बरें कवलीकृताः ॥ 4५ ॥
उद्गिरन्निव दन्तांशुच्छद्मना विषमण्डलीः ।
विलोलकर्णतालाग्रव्यालम्बिसितचामरः ॥ ४६॥
कालमेघ इयोत्सर्पद्वलाकावलयाङ्कितः ।
यस्य गम्भीरसंरम्भगुरुभिर्गलगर्जितैः ॥ ४७ ।।
तां त्रासस्खलितामेत्य दोर्भ्यामहमधारयम् ।