पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मदिरावस्याम्-द्विजपुत्रकथा:
४३५
बृहत्कथामारी।

जात' सद्भावनामाह कुलार्थं...."वितव्रतः ॥ ११ ॥
तत कदाचिद्दुर्मिक्षे त्यक्त्वा"... नगरं वयम् ।
संप्राप्ता कृच्छ्दीवाख्यं पुरं सुरपुरोपमम् ॥ ११ ॥
ततः कृतास्पदे तत्र सदा विद्यार्जने रतः ।
अहं गुरुकुले मित्रमवायं क्षत्रियं दिनैः ॥ १२ ॥
सोमदत्ताभिधानस्य राजन्यस्य तमात्मजम् ।
मित्रं विजयसेनाख्यं प्राप्याहं निर्वृतोऽभवम् ॥ १३ ॥
ततः कदाचिदुद्याने तत्त्स्वसा मदिरावती ।
दृष्टा मया मनोजन्मसाम्राज्यविजयोत्सवः ।।१४।।
दधाना बाहुयुगलं बिसकन्दसुकोमलम् ।
वापीव मञ्जुसिञ्जानमैखलाहंसमालिका ॥ १५ ॥
बिभ्राणाभिनवोद्भिन्नकुचावव्यक्तचूचुकौ ।
तारहारनदीजाताविव पङ्कजकोरकौ ॥ १६ ॥
तां विलोक्यामानन्दसुधानिःस्यन्दवाहिनीम् ।
कदम्बकुसुमाकारः संजातपुलकोऽभवम् ।। १७ ॥
सापि मामवलोक्यैव साचीकृतविलोचना ।
स्फुटां गतिं परित्यज्य भेजे विभ्रमवक्रताम् ॥ १८ ॥
नवस्मरशराघातकल्पितास्य निजं गृहम् ।
गत्वा बभूव शनकैर्ध्यानोच्छ्वासपरायणः ॥ १९ ॥
ततो विजयसेनेन नीतोऽहं निजमन्दिरम् ।
तामपश्यं स्म... मुवं मय्येवार्पितलोचनाम् ॥ २० ॥
तया प्रणयशालिन्या गुम्फितां कुसुमस्रजम् ।
कण्ठे न्यवेशय हर्षात्तामिवामीलितेक्षणः ॥ २१ ॥
रहस्तस्यास्ततो धात्रीं मामुवाचामृतोपमम् ।
त्वमेव मदिरावत्या जीवितं किमतः परम् ॥ २२ ॥
इत्यहं तद्गिरा हृष्टः प्राप्तो मन्मथतामिव ।